Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 135
________________ सू०४६] पष्ठः परिच्छेदः स्ववचने प्रामाण्यग्रह एव नास्ति तर्हि तस्य परप्रत्यायनाय शब्दोच्चारणे प्रवृत्तिरेव न स्यात्, प्रवृत्तौ तु स्ववचने प्रामाण्यग्रहस्याऽऽवश्यकत्वाद् 'नास्ति प्रमेयपरिच्छेदकं प्रमाणम्' इति प्रतिज्ञा स्ववचनेनैव व्याहता भवतीति भावः । एवं निरन्तरमहं मौनी' इत्याद्यपि दृश्यम् । स्मरणनिराकृतसाध्यधर्मविशेषणो यथा-'स सहकारतरुः फलशून्यः' इति कस्यचित् प्रतिज्ञा, सहकारतरं यः फलविशिष्टत्वेन स्मरति, तस्य स्मरणेन निराक्रियते । प्रत्यभिज्ञानिराकृतसाध्यधर्मविशेषणो यथासदृशेऽपि कचन वस्तुनि कश्चनोर्वतासामान्यभ्रान्त्या प्रतिज्ञां कुरुते 'तदेवेदम्' इति तस्येयं प्रतिज्ञा तिर्यक्सामान्यावलम्बिना 'तेन सदृशम्' इति प्रत्यभिज्ञानेन बाध्यते । तर्कनिराकृतसाध्यधर्मविशेषणो यथा-'यो यस्तत्पुत्रः स स श्याम इति व्याप्तिः समीचीना' इत्ययं पक्षः 'यो जनन्युपभुक्तशाकाचाहारपरिणामपूर्वकस्तत्पुत्रः स श्यामः' इति व्याप्तिग्राहकेण सम्यक्तण व्याहन्यते ॥ ४५ ॥ अनभीप्सितसाध्यधर्मविशेषणो यथा-स्याद्वादिनः शाश्चतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥ ४६॥ स्याद्वादिभिस्तावत् पदार्थानां कथश्चिन्नित्यानित्यत्वमेवाङ्गीकृतं तथापि कदाचिदसौ स्याद्वादी सभाक्षोभादिना 'घटो नित्य एवं' अथवा 'घटोऽनित्य एवं' इति प्रतिज्ञां करोति तदा तस्येयं प्रतिज्ञाऽनभीप्सितसाध्यधर्मविशेषणदोषेण दूषिता भवति, स्याद्वादिनो हि सर्वत्र वस्तुनि नित्यत्वकान्तोऽनित्यत्वैकान्तो वा नाभीप्सितः ॥ ४६॥

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177