SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतस्वालोके [सू०४७-५१ पक्षाऽऽभासान् निरूप्य हेत्वाभासानाहुःअसिद्ध-विरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ व्याप्त्याश्रयाभावादहेतवोऽपि हेतुवदाभासन्ते इति हेत्वाभासाःदुष्टहेतव इत्यर्थः, ते चाऽसिद्ध-विरुद्धानै कान्तिकभेदेन त्रिविधाः ॥४॥ यस्यान्यथाऽनुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ॥४८॥ यस्य हेतोः केनापि प्रमाणेनान्यथाऽनुपपत्तिर्न प्रतीयते सोऽसिद्धः, निश्चितान्यथाऽनुपपत्ये कलक्षणत्वाद्धेतोः ॥ ४८ ॥ स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥४९॥ स हेतुद्विविधः । यो वादि-प्रतिवादिसमुदायरूपस्योभयस्यासिद्धः स उभयाऽसिद्धः । यस्वन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धः सोऽन्यतराऽसिद्ध इत्यर्थः ॥ १९ ॥ उभयासिद्धो यथा-परिणामी शब्दः चाशुषत्वात् ॥५०॥ शब्दे चाक्षुषत्वं वादि-प्रतिवादिनोरुभयोरप्यसिद्धं, श्रावगत्वात् शब्दस्य, तस्मादयं हेतुरुभयासिद्ध इत्यर्थः ॥ ५० ॥ अन्यतरासिदो यथा-अवेतनास्तरवः, विज्ञानेद्रिया___ऽऽयुनिरोधलक्षणमरणरहितत्वात् ॥ ५१॥ विज्ञानस्येन्द्रियाणामायुवश्च निरोधः-प्रभाव इति विज्ञानेन्द्रियायु. निरोधः, तल्लक्षणं यन्मरणं तदभावाद् इति बौद्धा वृक्षेषु अचेतनत्वप्रसाधनार्थ हेतुमुपन्यस्यन्ति तन्न युक्तम् , अस्य हेतोः प्रतिवाद्यसिद्धिकलाक
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy