SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [२०३९-१० प्रतीतसाध्यधर्मविशेषणः निराकृतसाध्यधर्मविशेषणः, अनमीप्सितसाध्यधर्मविशेषणश्चेति त्रयः पक्षाऽऽभासा इत्यर्थः । अप्रतीतानिराकृताभीप्सितसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक्षत्वं प्रागुपदर्शितम् ॥ ३८ ॥ प्रतीतसाध्यधर्मविशेषणो यथा-आर्हतान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥ ३९॥ जैनान् प्रति समस्ति जीवः' इत्यवधारणार्थ कैवकाररहितं वाक्यं यदा कश्चित् प्रयुक्ते तदा तद्वचनं सिद्धसाधनापरपर्यायेण प्रतीतसाध्यधर्मविशेषणदोषेण दूषितं भवति, जैनैश्च तावदनेकान्तात्मकं जीवादितत्त्वमङ्गीकृतमेवेति तान् प्रति जीवास्तित्वसाधनं सिद्धसाधनमेवेति भावः ॥ ३९ ॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानाऽऽगमलोकस्ववचनादिभिः साध्यधर्मस्य निरा करणादनेकपकारः ॥ ४० ॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषगः, अनुमाननिराकृतसाध्यधर्म विशेषणः, आगमनिराकृतसाध्यवर्मविशेषणः, लोकनिराकृतसाध्यधर्मविशेषणः, स्ववचननिराकृतसाध्यधर्मविशेषणः, मादिपदात् स्मरणनिराकृतसाध्यधर्मविशेषणः, प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणः, तर्कनिराकृत १ तृतीयस्मिन् परिच्छेदे १४ सूत्रे, २९ पृष्ठे । सं० २. इत्यादि कख । ३. निराकृतस्वाद ख ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy