________________
सू०४१-४३] पष्ठः परिच्छेद साध्यधर्मविशेषणश्चेति निराकृतसाध्यधर्मविशेषणोऽष्टप्रकार इत्यर्थः ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा-नास्ति
भूतविलक्षण आत्मा ॥४१॥ प्रत्यक्षेण निराकृतः साध्यधर्मविशेषगो यस्य स प्रत्यक्षनिराकृतसाध्यधर्मविशेषणः पक्षाभासः, एवमग्रेऽपि ज्ञातव्यम् । स्वसंवेदनप्रत्यक्षेण पृथियादिभूनेम्यो विलक्षण आत्माऽस्तीति ज्ञायते, अनेन स्वसंवेदनप्रत्यक्षेण 'नास्ति भूतविलक्षण आत्मा' इति चार्वाकस्य प्रतिज्ञा बाधिताभवति, यथा-'वहिरनुष्णः' इति प्रतिज्ञा बाह्येन्द्रियप्रत्यक्षेण बाधिता भवतीति ॥ ४१॥ अनुमाननिराकृतसाध्यधर्मविशेषगो यथा-नास्ति
सर्वज्ञो वीतरागो वा ॥ ४२ ॥ 'नास्ति सर्वज्ञो वीतरागो वा' इति प्रतिज्ञा 'यः कश्चिनिहर्हासाsतिशयवान् स कचित् स्वकारणबनिनिमूलक्षयः, यथा कनकादिमलः, 'निह सातिशयवती च दोषावरणे' इत्यनुमानबाधिता। अनेनानुमानेन यत्र च कचन पुरुषधौरेये दोषाऽऽवरणयोः सर्वथा प्रक्षयप्रसिद्धिः स एव सर्वज्ञो वीतरागो वा । एवम् 'अपरिगामी शब्दः' इति प्रतिज्ञा 'शब्दः परिणामी कृतकत्वात्' इत्यनुमानेन बाध्यते इति ॥ ४२ ॥ आगमननिराकृतसाध्यधर्मविशेषगो यथा-जैनेन
रजनिभोजनं भजनीयम् ॥ ४३ ॥ जैनेन रजनिभोजनं भवनीयमिति प्रतिज्ञा--