SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू०४४-४५ ': अत्थं गयम्मि आइच्चे पुरत्था य अणुग्गए । आहारमाइयं सव्वं मणसा वि न पत्थएँ ॥" इति आगमवचनेन बाधिता भवतीत्यर्थः ॥ ४३ ॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा-न पारमार्थिकः प्रमाण-प्रमेयव्यवहारः ॥४४॥ 'प्रमाण-प्रमेयव्यवहारो न पारमार्थिकः' इति सौगतानां प्रतिज्ञा लोकेन लोकप्रतीत्या बाध्यते, लोको हि प्रमाणं प्रमेयं च सत्यत्वेनाङ्गीकृत्यैव प्रवर्तते अन्यथा कस्यापि कस्मिन्नपि विषये प्रवृत्तिरेव न स्यात् । इयं लोकप्रतीतिर्न पृथक्प्रमाणत्वेनावधारणीया, अस्याः प्रत्यक्षादिष्वे. वान्तर्भावात् , पृथग् निर्देश्स्तु शिष्यबुद्धिवेशद्यार्थमेवेति । एवं 'नरशिरःकपालः शुचिः, प्राण्यङ्गत्वात् , शङ्खादिवत्' इत्यादीन्यप्युदाहरणानि दृष्टव्यानि ॥ ४४ ॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा-नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥४५॥ 'नास्ति प्रमेयपरिच्छेदकं प्रमाणम्' इति यो ब्रूते स 'ममेदं वचनं प्रमाणम्' इति मत्वैव ब्रते, अन्यथा तेन मौनिनैवं स्थातव्यं, ब्रुवाणस्तु स्ववचनेनैव व्याहन्यते, तथाहि-परप्रत्यायनार्थमेव शब्दप्रयोगः, यदि १ अस्तं गते आदित्ये पुरस्ताच्चानुद्गते । आहारादिकं सर्व मनसाऽपि न प्रार्थयेत् ॥ (इति संस्कृतच्छाया) २ "आहारमइअं" इत्यपि पाठो दृश्यते । ३ दशवकालिकसूत्रस्याष्टमाध्ययने द्वितीयोद्देशके २८ तमः लोकोऽयं २३० पृष्ठे। संशोधकः ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy