SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ खू० ३४-३८] उदाहरन्ति -- षष्ठः परिच्छेदः यमलकजातवत् ॥ ३४॥ अयं भावः - एकस्या एव स्त्रियाः सहोत्पन्नयोः पुत्रयोर्मध्याद् यत्र 'अयं द्वितीयेन तुल्यः' इति ज्ञातव्यमस्ति तत्र 'स एवायम्' इति ज्ञानम्, यत्र स एवायम्' इति जिज्ञासा वर्तते तत्र तेन तुल्यो - यम्' इति ज्ञानं प्रत्यभिज्ञाऽऽभासमिति ॥ ३४॥ असत्यामपि व्याप्तौ तदवभासस्तर्काभासः || ३५॥ अव्याप्तौ व्याप्तिज्ञानं तर्काऽऽभास इत्यर्थः ॥ ३५ ॥ स श्यामः, मैत्रतनयत्वाद् इत्यत्र यात्रान्मैत्रतनयः स श्याम इति यथा ॥ ३६ ॥ २ 'सश्यामः, मैत्रतनयत्वात्' इत्यस्मिन्ननुमाने हेतोः सोपाधिकत्वात् साध्येन श्यामत्वेन सह व्याप्तिर्नास्ति तथापि यत्र यत्र मैत्रतनयत्वं तत्र तत्र श्यामत्वम्' इत्याकारकं यत् तत्र व्याप्तिज्ञानमुन्मज्जति स तर्काssभास इत्यर्थः ॥ ३६ ॥ पक्षाऽऽभासादिसमुत्थं ज्ञानमनुमानाऽऽभासमवसेयम् ॥ ३७ ॥ अत्राऽऽदिपदेन हेत्वाभास-दृष्टान्ताऽऽभासोपनयाऽऽभास-निगम नाऽऽभासानां संग्रहः । स्पष्टमन्यत् ॥ ३७ ॥ तत्र प्रतीत-निराकृतानभीप्सित साध्यधर्मविशेषणास्त्रयः पक्षाऽऽभासाः ॥ ३८ ॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy