SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू० ३०-३३ यथा-शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् ॥ ३०॥ शिवाऽऽख्यस्य राजर्यदसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानं प्रादुर्बभूव तद्विभङ्गापरपर्यायमवध्याभासमित्यर्थः । मनःपर्याय-केवलज्ञानयोस्तु विपर्ययः कदाचिदपि न भवति, मनःपर्यायस्य संयमविशुद्विनिबन्धनत्वात् , केवल ज्ञानस्य च समस्ताऽऽवरणक्षयसमुत्थत्वादिति भावः ॥ ३०॥ अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् ॥ ३१॥ प्रमाण.मात्रेणानुपलब्धे वस्तुनि 'तत्' इत्याकारकं यज्ज्ञानं तत्स्मरणाभासमित्यर्थः ।। ३१ ॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥ अनुभूतस्यैव वस्तुनः स्मरणं भवति नाऽननुभूतस्य, तस्मादननुभूते मुनिमण्डले 'तद् मुनिमण्डलम्' इति ज्ञानं स्मरणाऽऽभासम् ॥ ३२ ॥ तुल्ये पदार्थे स एवायमिति, एकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाऽऽभासम् ॥३३॥ तुल्ये पदार्थे तेन सदृश इति न्ज्ञिासिते ‘स एवायम्' इति ज्ञानम्, एकस्मिन् वस्तुनि स एव इति जिज्ञासिते 'तेन तुल्यम्' इति ज्ञानं प्रत्यभिज्ञाऽऽभासमित्यर्थः ॥ ३३॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy