________________
सू० २६-२९ ] मीमांसकाभिमतमस्वसंविदितज्ञानम् अनात्मप्रकाशक्रस्य । योगाचाराभिमतं परानवभासकं ज्ञानं स्वमात्रावभासकस्य । सौगताभिमतं दर्शनं निर्विकल्पकस्य । विपर्यय - संशया-नव्यवसायास्तु समारोपस्येति । एतेषां सन्निकर्षादीनां स्वरूपं प्रथमपरिच्छेदे प्रदर्शितमिति नेह प्रतन्यते ॥ २५ ॥
एतेषां स्वरूपाऽऽभासत्वे कारणमाहुःतेभ्यः स्व-परव्यवसायस्यानुपपत्तेः ॥ २६ ॥ सन्निकर्षादिभ्यः स्व-परव्यवसायस्यानुपद्यमानत्वादेतेषां स्वरूपाssभासत्वमित्यर्थः ॥ २६ ॥
सांव्यवहारिकप्रत्यक्षमित्र यदाभासते तत् तदाभासम् ॥ २७ ॥
तदाभासं - सांव्यवहारिक प्रत्यक्षाऽऽभासमित्यर्थः ॥ २७ ॥ यथा - अम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥ २८ ॥
इन्द्रियानिन्द्रियनिबन्धनभेदेन सांव्यवहारिकं प्रत्यक्षं द्विविधमिति * पूर्वं प्रतिपादितम् । तत्र अम्बुधरेषु मेघेषु यद् गन्धर्वनगरज्ञानं तदिन्द्रियनिबन्धनप्रत्यक्षाऽऽभासम् । दुःखे सुखज्ञानं चानिन्द्रियनिबन्धन प्रत्यक्षाभासमित्यर्थः ॥ २८॥
षष्ठः परिच्छेदः
पारमार्थिक प्रत्यक्षमित्र यदाभासते तत् तदाभासम् ।। २९ ।।
* द्वितीयपरिच्छेदपञ्चमसूत्रे, १६ पृष्ठे । सं०