________________
प्रमाणनयतत्वालोके
[ ०२२-२५ काल्पनिकम्, अकाल्पनिकं वा ? यदि काल्पनिकं तर्हि कथं काल्पनिकात् प्रमाणात् प्रमाण - फलव्यवहारस्य परमार्थतः काल्पनिकत्वसिद्धिः ? तथा च प्रमाणफलव्यवहारस्य सत्यत्वमेवायातम्, यदि अकाल्पनिकं प्रमाणफलग्राहकं प्रमाणं तर्हि 'सर्वोऽपि प्रमाणफलव्यवहारः काल्पनिक ः ' इति प्रतिज्ञाविरोधः, एकत्र प्रमाणस्या काल्पनिकत्वस्वीकारात् । तस्मात् प्रमाणफलव्यवहारः परमार्थभूत एवाभ्युपगन्तव्य इति ॥ २१ ॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ॥ २२ ॥ प्रमाणस्य स्वरूपादिचतुष्टयाद् विपरीतं तदाभासम् ॥ २३ ॥
प्रमाणस्य स्वरूप-संख्या-विषय-फललक्षणात् स्वरूपचतुष्टयाद् विपतं स्वरूपाssभासं, संख्याऽऽभासं, विषयाऽऽभासं, फलाssभासमिति स्वरूपादिचतुष्टयाऽऽभासमित्यर्थः ॥ २३ ॥
अज्ञानात्मकानात्मप्रकाशक- स्वमात्रावभासक-निर्विकल्पक-समारोपाः प्रमाणस्य स्वरूपा -
भासाः ॥ २४ ॥
अज्ञानात्मकं च अनात्मप्रकाशकं च स्वमात्रावभासकं च निर्वि कल्पकं च समारोपश्चेति पञ्च प्रमाणस्य स्वरूपाऽऽभासा इति ॥ २४ ॥ यथा - सन्निकर्षाद्यस्वसंविदित-परानवभासकज्ञानदर्शन - विपर्यय-संशयानध्यवसायाः ||२५|| नैयायिकाद्यभिमतं सन्निकर्षादिकम् अज्ञानात्मकस्य दृष्टान्तः ।