SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सू० १९-२१] षष्ठः परिच्छेदः कर्ता हि साधकः, स्वास्यात् , क्रिया तु साध्या, कर्तृनिर्वय॑वात् ॥ १९॥ न च क्रिया क्रियावतः सकाशादभित्र भित्रै वा, प्रतिनियतक्रिया-क्रियावद्भावमङ्गप्रसङ्गात ॥२०॥ अयं भावः--यदि किया क्रियावतः सकाशादेकान्तेनाऽभिन्नाऽगीक्रियेत तर्हि क्रियावन्मात्रमेव तात्विकं स्यात्, न तु द्वयम् , यदि चैकान्तेन भिन्नाऽभ्युपगम्येत तहिं 'अस्यैवेयं क्रिया' इति सम्बन्धनिश्चयो न स्यात् , भेदाविशेषाद् अन्यस्याप्यसौ किं न भवेत् ? न च समवायसम्बन्धो नियामकः, तस्यैकत्वाद् , व्यापकत्वाच्च नियामकासम्भवात्, तस्मात् क्रिया-क्रियावतोरेकान्तेन भेदे अभेदे वाऽङ्गीक्रियमाणे क्रियाक्रियावद्भावभगाद् भिन्नाभिन्नत्वमेवाभ्युपगन्तव्यमिति ॥२०॥ संवृत्या प्रमाण-फलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ २१ ॥ नन्वयं प्रमाण-फलव्यवहारः संवृत्या-कल्पनयैव भवति न तु परमार्थतोऽस्ति तस्माद् व्यर्य एव तद्विषयकभेदाभेदविचार इति चेत् , न, प्रमाणफलव्यवहारस्य काल्पनिकत्वाङ्गीकारे वस्तुतः स्वाभिमतसिद्धिरेव न स्यात्, तथाहि-भवता प्रमाण-फलव्यवहारस्य काल्पनिकत्वं परमार्थवृत्त्याऽङ्गीकरणीयम् , अन्यथा स्वेष्टविघातः स्यात् । तच काल्पनिकत्वं प्रमाणात् स्वीक्रियते, अप्रमाणाद् वा ! न तावदप्रमाणात् , तस्य स्वाभिमतसिद्धिं प्रत्यकिश्चित्करत्वात् । यदि प्रमाणात् , तदपि प्रमाणं
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy