________________
प्रमाणनयतरवालोके [सू०१५-१८ ननु प्रमाण-फलयो : साध्य-साधनभाव एव कुतः ? इत्याशङ्कायां प्रथमं तावत् प्रमाणस्य साधनत्वं साधयन्ति-- प्रमाणं हि करणाख्यं साधनं, स्व-परव्यवसितौ
साधकतमत्वात् ॥ १५॥ यत् खलु क्रियायां साधकतम तत् करणाऽऽक्ष्यं साधनं यथाकुठारः, साधकतमं च स्व-परव्यवसितौ प्रमाणं तस्मात् करणाख्यं साधनमिति ॥१५॥ स्व-परव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु
साध्यं, प्रमाणनिष्पाद्यत्वात् ॥१६॥ यत् प्रमाणेन निप्पाचं तत् साध्यं यथा-उपादानबुद्धयादिकं, प्रमाणेन निष्पाद्यं च स्व-परव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं, तस्मात् तत् साध्यमिति ॥ १६ ॥ प्रमातुरपि स्व-परव्यवसितिक्रियायाः कथश्चिद्
भेदः ॥ १७ ॥ न केवलं प्रमाणात् स्व-परव्यवसितिक्रियाया भेदः किन्तु प्रमातुरास्मनोऽपि सकाशाद् भेद इत्यर्थः ॥ १७ ॥ कर्तृ-क्रिययोः साध्य-साधकभावेनोपलम्भात् ॥१८॥
ये साध्य-साधकभावेनोपलभ्येते ते भिन्ने, यथा-देवदत्तदारुच्छिदिक्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृ-स्वपरव्यवसितिलक्षणक्रिये, तस्मात् कथञ्चिद् भिन्ने इत्यर्थः ॥ १८ ॥
१. निःपाय ।