SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सू०१२-४] पछः परिच्छेदः मनि च विद्यमाने प्रमाणफले देवदत्तस्य कुतो न भवेताम् ? भेदस्य उभयत्राविशेषाद्, इति एकप्रमातृतादाम्येन प्रमाण-फलयोरवस्थितिरङ्गीकर्त येति ॥ ११॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिभेन साक्षात्फलेन साधनस्याऽनेकान्त इति नाशङ्कनीयम् ॥१२॥ ननु प्रमाण-फलत्वाऽन्यथानुपपत्तेरिति प्रमाण-फलयोर्भेदाऽभेदसाघकत्वेनोपन्यस्तो हेतुः प्रमाणात् सर्वथाऽभिन्ने मज्ञाननिवृत्त्याख्येऽव्यवहितफलेऽपि वर्तते मतो व्यभिचारीति बौद्धैर्नाऽऽरेकणीयम् ॥ १२ ॥ कुतः ? इत्याहुःकयश्चित् तस्यापि प्रमाणाद् भेदेन व्यवस्थानात् ॥१३॥ अज्ञाननिवृत्तिरूपस्य फलस्यापि प्रमाणात् कथञ्चिद्भिन्नत्वेनावस्थानादित्यर्थः ॥ १३ ॥ तदेवोपपादयन्ति-- साध्य-साधनभावेन प्रमाण-फलयोः प्रतीयमानत्वात ॥१४॥ प्रमाणाऽज्ञाननिवृत्त्याख्यफले परस्परं भिद्यते, साध्य-साधनभावन प्रतीयमानत्वात् , ये साध्य-साधनभावेन प्रतीयेते ते परस्परं भिघेते यथाकुठारच्छिदे,इत्यनुमानेन प्रमाणाऽज्ञाननिवृत्त्याख्यफल्योः कथञ्चिद्भिदोऽपि सिध्यतीति भावः ॥ १४ ॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy