________________
प्रमाणनयतत्वालोके
[ सू० ९-११
बुद्धादिरूपं फलं प्रमाणादभिन्नं, एकप्रमातृतादात्म्याद, अव्यवहित
फलवत् ॥ ८ ॥
एकप्रमातृतादात्म्यमुपपादयन्ति --
प्रमाणतया परिणतस्यैवाऽऽत्मनः फलतया परिणतिप्रतीतेः ॥ ९॥
यः प्रमाता पूर्वं प्रमाणतया परिणतः स एव फलतया परिणमति, इत्येकप्रमापेक्षया प्रमाण- फलयोरभेद इति ॥ ९ ॥
यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥ १० ॥
यः प्रमाता प्रमाणेन वस्तु निश्चिनोति स एव तद् गृहाति परित्यजति उपेक्षते चेति सर्वैरनुभूयते, न त्वन्यस्य प्रमातुः प्रमाणतया परिणामोऽन्यस्य चोपादानबुद्धयादिलक्षणफलतया इति कस्यापि प्रतीतिरस्तीत्यर्थः ॥ १० ॥
इतरथा स्व-परयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्येत ॥ ११ ॥
यथेकस्यैव प्रमातुः प्रमाणफलतादात्म्यं नाभ्युपगभ्येत तर्हि 'इमे प्रमाण- फले स्वकीये इमे च परकीये' इति व्यवस्था न स्यात् ।
अयं भावः -- देवदत्तात्मनि विद्यमानयोः प्रमाण- फलयोर्यथा देवदत्तसकाशाद् भिन्नत्वं तथा जिनदत्तादपि । एवं जिनदत्तात्मनि विद्यमानयोः प्रमाण- फल्योर्यथा जिनदत्ताद् भिन्नत्वं तथा देवदत्तादपि । एवंस्थिते देवदत्तात्मनि विद्यमाने प्रमाणफले जिनदत्तस्य, जिनदत्ताss