________________
२० ६-८] पहा परिदः
केवलज्ञानव्यतिरिक्तानां प्रत्यक्ष-परोक्षलक्षणप्रमाणानां उपादेये कुङ्कुमचन्दनादौ उपादानबुद्धिः-ग्रहणबुद्धिः, हे ये विषाङ्गारादौहानबुद्धिः -त्यागबुद्धिः, उपेक्षणीये, तृणलोष्ठादी उपेक्षाबुद्धिः पारंपर्येण फलमित्यर्थः
तत् प्रमाणतः स्याद् भिन्नमभिन्नं च, प्रमाणफलत्वा
न्यथाऽनुपपत्तेः ॥६॥ फलस्य प्रमाणतो भिन्नत्वेऽङ्गीक्रियमाणे कथं प्रमाणस्यैव तत् फलं, न घटस्य ? भिन्नत्वाविशेषात् । अभिन्नत्वे प्रमाणमेव तत्वं स्यात्, न फलं किञ्चद् , इति प्रमाण-फलत्वान्यथाऽनुपपत्तेः प्रमाणात् फलस्य भिन्नाभिन्नत्वमभ्युपगन्तव्यमिति भावः । प्रयोगश्च-फलं प्रमाणाद् भिन्नाभिनं, प्रमाणफलत्वान्यथाऽनुपपत्तेः ॥ ६ ॥ उपादानबुद्धयाऽऽदिना प्रमाणाद् भिन्न व्यवहितफलेन हेतोय॑भिचार इति न विभाव
नीयम् ॥ ७ ॥ प्रमाणाद् भिन्ने उपादानबुद्ध्यादौ उक्तलक्षणो हेतुर्वर्तते अतो व्यभिचार इति न विभावनीयम् ॥ ७ ॥ अत्र हेतुमाहुः-- तस्यैकममातृतादात्म्येन प्रमाणादभेदव्यव
स्थितेः ॥ ८॥ तस्य-उपादानबुद्धयादिरूपस्य व्यवहितफलस्य एकप्रमातृतादाम्येन वर्तमानावात् पनागादभिनत्वमित्ययः। प्रयोगश्व--उपादान