________________
षष्ठः परिच्छेदः ।
यत् प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १ ॥
प्रमाणेन हि अज्ञाननिवृत्त्यादिकं साध्यतेऽतस्तदेव अस्य - प्रमाणस्य फलमिति भावः ॥ १ ॥
तेद् द्विविधमानन्तर्येण पारम्पर्येण च ॥ २ ॥
प्रमाणस्य फलं द्विविधं आनन्तर्येण पारम्पर्येण च अध्यवहितं व्यवहितं चेत्यर्थः ॥ २ ॥
तत्राऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः
फलम् ॥ ३ ॥
सर्वप्रमाणनामव्यवहितफलमज्ञाननिवृत्तिः, सा च स्व-परव्यवसायरूपा, यथा-घटध्वंसः कपालसमुदायात्मकः, तथैवाज्ञानस्य निवृत्ति:ध्वंसोऽपि स्व- परनिश्चयात्मक इति भावः ॥ ३॥
पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् ॥ ४॥
केवलज्ञानस्य साक्षात्फलमज्ञाननिवृत्तिः । परम्पराफलं तु औदासीन्यं-सर्वपदार्थेषु उपेक्षा । हेयस्य परित्यक्तत्वादुपादेयस्य चोपादानात् सिद्धप्रयोजनत्वाद्, उपेक्षैव भवति, परम्पराफलं केवलिनामिति भावः #| 8 ||
शेषप्रमाणानां पुनरुपादानहानोपेक्षा बुद्धयः ॥ ५ ॥
१. तद्विधाऽन ख ।