________________
प्रस्तावना ।
(२१) "इति""श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्कारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥१॥" इति पाठो दृश्यते, परन्तु परिच्छेदान्त उपसंहारोल्लेखभेदस्तु लिपिकारविहितोऽपि भवेद् , इति संभावनायाः संभवात् , सन्दिग्वत्वं, तं संदेहं 'प्रमाणनयतत्त्वालोकः' इतिरूपं ग्रन्थातर्निर्दिष्टं ग्रन्थकारपाठत्रयं निराकुर्वत् निश्चापयति यदस्य प्रमाणनयतत्त्वालोक इत्येव ग्रन्थकारसम्मतमभिधानमस्ति, नान्यदिति । ____ आग्रानगरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य स्नाकरावतारिकाहस्तलिखितपुस्तकद्वयस्य प्रथमपरिच्छेदान्ते, तथा प्रमाणनयतत्त्वालोकमूलग्रन्थस्य लिखितपुस्तकस्य प्रथमपरिच्छेदान्ते चोपसंहारपङ्क्तिषु "श्रीप्रमाणनयतत्वालोके" इत्येव पाठो विद्यतेऽतो मूलग्रन्थकारतच्छिष्यलिखितपाठचतुष्टयेन संवादभूतेन युक्त्या च निर्बाधमिदं सिध्यति यत् प्रस्तुतग्रन्थस्य 'श्रीप्रमाणनयतत्त्वालोकः' इत्येव नामधेयं श्रीवादिदेवसूरिभिविहितम् , न 'प्रमाणनयतत्त्वालोकालङ्कारः' इति । किञ्च विद्वद्ग्रन्थनामानि प्रायः संक्षिप्तानि भवन्ति । __ या च प्रसिद्धिरलङ्कारान्तस्य जाता; सास्य ग्रन्थस्य श्रेष्ठतमत्वात् "अलङ्कारभूतोऽयं ग्रन्थो न्यायग्रन्थेषु" इतिलोकप्रतीतिहेतोः, लिपिकारस्य वा भ्रान्त्या समजनीति संभाव्यते । यथा-दिगम्बराणांतत्त्वार्थाधिगमसूत्रविधातुः श्रीउमास्वातिपादस्य श्रीउमास्वामित्वेन प्रसिद्धिर्माता; सा च बहुकालतो भ्रान्तिसंभवेति साधितं सप्रमाणं दिगम्बरपण्डितश्रीयुगलकिशोरादिमहाशयः, तद्वदत्रापि वेदितव्यमिति मामकी मतिः ।
३१. अनेकान्तपत्रे, १ वर्षस्य, ५ किरणे पृ० २६९ ।