________________
(२०) प्रमाणनयतस्वालोके तन युक्तम् , यतो ग्रन्थका त्वस्य 'प्रमाणनयतत्त्वालोकः' इत्येव नामधेयं स्थापितमित्यस्यैव प्रन्थस्य विस्तृतस्वोपज्ञटीकारूपस्याद्वादरत्नाकरग्रन्थान्तःपाठतः स्पष्टं प्रतिभासते । तथाहि - "कथं पुन: प्रमाणनयतत्त्वालोकः शास्त्रम् ? येन तदाऽऽरम्भे परम्परागुरुप्रवाहः स्मयते, इति चेत्, उच्यते,........""तच्चाष्टपरिच्छेदीरूपस्य प्रमाणनयतत्वालोकस्यास्तीति सोऽपि शास्त्रम्" स्याद्वादरत्नाकरः १ परि०. १ भागः, पृ० ७ आर्हतमतप्रभाकरमुद्रितः । तथ
" इदं स्वसंवेदनप्रत्यक्षेणान्तस्तत्त्वरूपतया प्रतिभासमानं प्रमाणनयस्तत्त्वालोकाख्यं शास्त्रम्"-स्याद्वादरत्नाकरप्रथमभागः, पृष्ठम् ९ । श्रेवादिदेवसूरेः प्रियतमशिष्यश्रीरत्नप्रभसूरिः स्याद्वादरत्नाकरसाररूपां रत्नाकरावतारिका टीका रचयाञ्चक्रे, सोऽपि तस्यां प्रस्तुतग्रन्थस्य "प्रमाणनयतत्त्वालोकः" इत्येव नाम प्रकटीचकार, तथाहि
"सोऽपि समासतः सूत्राभिधेयावधारणं विना न; इति प्रमाणनयतत्त्वालोकाख्यतत्सूत्रार्थप्रकाशनपरा रत्नाकरावतारिका नाम्नी लघीयसी टीका प्रकटीक्रियते ।" रत्नाकरावतारिका यशोवि० ग्रन्थमालामुद्रिता पृ० २ * ।
शब्दार्थेऽपि विचार्यमागे प्रमाण-नययोस्तत्त्वं, तस्यालोकः-प्रकाश इति 'प्रमाणनयतत्वालोकः' इत्येवास्य पर्याप्तं युक्तं च नाम प्रतिभासते । 'आलोकस्यालङ्कारः' इति नाम तु निरर्थकमविशिष्टार्थ वा प्रतिभाति । यद्यपि मुद्रितस्याद्वादरत्नाकरस्य प्रत्येकपरिच्छेदान्त
* अस्यापरं मुद्रणं गूर्जरभाषानुवादसहितमनेकपरिशिष्टादिभिरलंकृतं, अहम्मदाबादस्थला. द. भारतीयसंस्कृतिमन्दिरात् कृतमस्ति ।
३०. आईतमतप्रभाकरमुद्रितस्याद्वादरत्नाकरप्रथमभागे पृ० २५५ ।