________________
(२२)
प्रमाणनयतत्त्वालोक
अत एव मया अस्य ग्रन्थस्य सम्पादनावसरे 'श्रीप्रमाणनयतवालोकः' इत्येव नामधेयं मुद्रापितम् ।
प्रमाणनयतत्वालोकस्य प्रचारः अस्य ग्रन्थस्य बाह्याभ्यन्तराऽऽकारेण सुन्दरत्वाद् जैनप्रमाणनयतत्त्वस्य सम्पूर्णतया प्रतिपादकत्वाद् विस्तृतपद्धतिकत्वेऽपि गम्भीरार्थत्वाच्च बहुभिर्विद्वद्भिरस्य ग्रन्थस्याध्ययनाध्यापनमनुकरणं चानेकशः कृतम् । स्याद्वादमञ्जरी- स्याद्वादभाषा - जैनतर्कभाषा
३२. २८ तमलोकटीकायां ।
३३. अत्र ग्रन्थे श्रीप्रमाणनयतत्त्वालोकस्य श्रीतत्त्वार्थसूत्रस्य च प्रमाणनयप्रमेयप्रतिपादकानि सूत्राणि संक्षेपाद् व्याख्यातानि गद्यगीर्वाणगिरा।
३४. तर्कभाषानाम्ना द्वौ ग्रन्थौ वर्तेते जैनकृतौ । 'एकस्तावत् श्रीयशोविजयवाचकप्रणीतः, स च श्रीयशोविजयप्रन्थमालानाम्नि प्रन्थे मुद्रितः पृ० १११ तः पृ० १३१ पर्यन्तं, जैनधर्मप्रसारकसभया च प्रकाशितः । लघुरपि सुन्दरोऽयं प्रन्थः। अत्र ग्रन्थे प्रमाणनयतत्वालोकस्य नैकानि सूत्राणि संगृह्य विवृतानि, षष्ठ-सप्तमपरिच्छेदयोस्तु प्रायः समस्तानि सत्राणि गृहीत्वा व्याख्यातानि । द्वितीयः श्रीजैनतर्कभाषाऽभिधो ग्रन्थो यशःसागरशिष्येण श्रीयशस्वत्सागरेण संहब्धः, सोऽद्याप्यमुद्रित एवास्ति, सरलः सुन्दरश्चायं विद्यते । तस्मिनपि प्रमाणनयतत्त्वालोकस्य तृतीय-षष्ठ-सप्तमपरिच्छेदानामविकलानि सूत्राणि न्यस्तानि । तस्य हस्तलिखितपुस्तकत्रयं श्रीविजयधर्मलक्ष्मीज्ञानमन्दिरे वरीवति । तस्याऽऽदिभागस्त्वेवमस्ति
अहं बो भावतश्चाभिवाय सम्पविद्यासद्गुरुं मद्गुरुं च । श्रीमद्देवाचार्योंकियुक्त्या स्याद्वादस्य प्रकियां वावदामि ॥१॥ स्यावादरत्नाकरसूत्रशोधिकां प्रमाणशास्त्रावतरत्वबोधिकाम् । तत्तर्कभाषां स्व-परप्रबोधिको तमस्तमौघप्रसरावरोषिकाम् ॥
अनेन ज्ञायते यदयं प्रन्थः प्रमाणनयतत्त्वालोकसूत्राण्यवलम्न्येक विरचित इति ।