________________
प्रस्तावना ।
( २३ ) "जैनसप्त पदार्थी - स्याद्वादमुक्तावलि - षट्दर्शनसमुच्चय टीकाप्रभृतिप्रन्येषु श्रीमल्लिषेण-शुभविजयगणि-यशोविजयोपाध्याय - यशस्वत् सागरगणिप्रभृतिभिरस्य बहूनि सूत्राणि संगृह्य गद्येन पद्येन वा व्याख्यातानि प्रमाणत्वेन चोल्लिखितानि । स्वयं वादिदेवसूरिभिरप्यस्योपरि चतुरशीतिसहस्रश्लोकात्मकः स्वोपज्ञैस्याद्वादरत्नाकराख्य आकरग्रन्थो प्रथितः, तच्छिष्येण च रत्नाकरावतारिका नाम्नी टीका रचयाश्चक्रे । चतुर्विंशतिप्रबन्धकारैः श्रीराजशेखरसूरिभी रत्नाकरावतारिकोपरि पञ्जिका, ज्ञानसुन्दरेण च टिप्पणं व्यधायि । शास्त्रविशारद श्रीविजयधर्मसूरिमित्रैः प्रमाणपरिभाषायां प्रस्तुत प्रन्थानुकृतिरपि कृता ।
ग्रन्थकारवादिदेवसूरिपरिचयः
अस्य श्रप्रमाणनयतत्त्वालोकस्य कर्तुर्विषये सत्यपि मत्पार्श्वे साघनप्राचुर्ये प्रस्तावना गौरवभयादेवातीव संक्षेपादत्र किञ्चिल्लिख्यते
-
श्रीवादिदेव सूरे: 'वीरनाग' इति जनकः, 'जिनदेवी' इति जननी,
३५. जैनसप्तपदार्थीप्रन्थोऽपि श्रीयशस्वत्सागरेण निरमायि । प्रमाणप्रमेयप्रतिपादकोऽयं सुन्दरो प्रन्थस्तर्कसंग्रहृपद्धतिकोऽस्ति स चेत् प्रकाशितो भवेत्तदा दर्शनशास्त्रप्रवेशोत्सुकच्छात्राणामतीवोपकारी स्यात्, अस्य प्रमाणप्ररूपणप्रसङ्गेऽपि कानिचित् प्रमाणनयतत्त्वाला के सूत्राणि दरीदृश्यन्ते ।
३६. अयं पञ्चभागैर पूर्णो प्रन्थः श्रीआहंतमतप्रभाकर कार्यालयेन पूना नागरात् प्रकाशितः ।
३७. रत्नाकरावतारिका संपूर्णा, परिच्छेदद्वयस्य पञ्जिका, टिप्पणं च श्रीयशोविजयग्रन्थमाला प्रकाशयाश्चिक्रिरे ।
"