________________
(२४) प्रमाणनयतत्त्वालोक 'पूर्णचन्द्र' इति नामधेयम् , अष्टादशशतीदेशभूषणं 'मद्दाहृतम्' इति नगरम्, 'प्राग्वाट' (पोरवाल) इत्याख्यावश्यजातिः, जन्म तो जैनधर्मश्चासीत् । बृहत्तपागच्छीययशोभद्र-नेमिचन्द्रपट्टालङ्कारश्रीमुनिचन्द्रसूरिपाचे पूर्णचन्द्रेण ११५२ वैक्रमे वर्षे साधुदीक्षा जगृहे । स्तोकेन कालेन विविधाः शास्त्रकलाः कलयित्वा स काश्मीरसागर-गुणचन्द्रादीन् नैकान् तत्कालख्यातान् वादिनो वादेषु परास्तवान् । गुरुणा तद्वादशक्त्या संतुष्य विद्वत्संघसमक्षं ११७४ वैक्रमे वर्षे 'देवसूरिः' इति नाम प्रस्थाप्य तस्मै आचार्यपदं प्रददे। ____अथ गुरुनिर्वागानन्तरं स देवमूरिरनेकान् भूपतीन् प्रतिबोध्याऽसंख्यान् संख्यावतोऽगण्यान् जनगणान् शुद्धोपदेशेनोपदिश्य गुर्जरमरु-मेवाडादिदेशेषु निःस्पृहो विचचार ।
वादशक्तिपरिचयः देवसूगवपूर्वो वादशक्तेविकास आसीत् , येन बहीषु वादसभासु स विजयश्रियं ववार । तत्र प्रसङ्गव्यं लिख्यते
३८. प्रभावकचरित्रे देवसूरिप्रबन्धे । ३९. शिखि वेद-शिवे (११४३) जन्म, दीक्षा युग्म-शरेश्वरे (११५२)। वेदाश्व-शङ्करे (११७१) वर्षे मूरित्वमभवत् प्रभोः ॥ लो० २८६ ।
-प्रभा०च०देवरिप्रबन्धः । धर्मसागरोपाध्यायमतेन तु वि० सं० ११३४ वर्षे रेजन्माभवत् ।
१०.श्रीमुनिचन्द्रसूरेवि० ११७८ कार्तिककृष्णपञ्चम्यां निर्वाणमभूदिति देवसुरिरचितगुरुविरहविलापस्य ३६, ४० लोकाभ्यां विज्ञायते ।