________________
प्रस्तावना।
(२५) एकदा किल देवबोधनामा सर्वत्र लब्धजयः कश्चिद् भागवतदर्शनी पण्डितः श्रीपत्तनगर( पाटण)मागत्य राजद्वारेऽवलम्बनपत्रे एकं दुरवबोधं श्लोकं लिटेख । तं श्लोकं दृष्ट्वा सर्वेऽपि राजपण्डिता विस्मयं जग्मुः । षण्मासान् यावद् व्याख्यातुं कृतेऽपि प्रयत्ने केनापि कोविदेन स श्लोकः न स्पष्टं व्याख्यात इति हेतोश्वेतसि खिन्नोऽतितरां सिद्धराजजयसिंहनामा गुर्जरसम्राट, अम्बाप्रसादाख्येन सचिवेन च विज्ञप्तो यद् देवसूरिरस्यार्थं स्पष्टयिष्यतीति । तदनन्तरं राज्ञा प्रार्थितो देवसूरिस्तस्य श्लोकस्य लीलयैव स्पष्टव्याख्या चकृवान् । स चायं श्लोक:
एक-द्वि-त्रि-चतुः-पञ्च-षणमेनकमनेनकाः।
देवबोधे मयि क्रुद्ध षण्मेनकमनेनकाः ॥ मस्य श्लोकस्य स्पष्टं व्याख्यातुः बहस्पतेरिव देवसूरेः प्रतिभा प्रेक्ष्य राज्ञा सह सर्वेऽपि पण्डिताः प्रमोदमेदुराः संजज्ञिरे । देव
११. प्रभावकचरित्रम् ६५ ॥
१२. प्रभावकच० श्लो० ६३ । अस्य श्लोकस्य संक्षप्त तात्पर्यमत्र लिख्यते एक-द्वि-त्रि-चतुः-पञ्च-षदप्रमाणोपदेशिभिर्वादमिच्छति मयि देव-- बोधनाम्नि पण्डिते कुपिते सति ते एकादिप्रमाणवादिनचार्वाक-बौद्धसाङ्ख्य-नैयायिक प्रभाकर मीमांसका न काः-न वादिनः, तुच्छा इत्यर्थः । तथा विष्णु-ब्रह्म-सूर्या अपि वादिनो मयि कुद्धे सति नकाः कुत्सिताः-तेऽपि मामग्रे निरुत्तरीभवन्तीति भावः, यतो देवान् बोधयतीति व्युत्पत्त्याऽहं तेषामपि बोधकोऽस्मीति ।