________________
(२१)
प्रमाणनयतत्वालोके
बोधोऽपि प्रीतः । यदा देवसूरिर्मरुदेशस्थनागपुरं पुरं जगाम तदा आह्लादनाख्येन भूपेन सहाभिमुखमागत्य देवबोधो देवसूरिमेवं स्तुतवान्
यो वादिनो द्विजिह्वान् साटोपं विषयमानमुद्गिरतः । शमयति स देवसूरिर्नरेन्द्रवन्द्यः कथं न स्यात् ॥
-प्रभावकच० दे०प्र० ७६ ॥
वादिकुमुदचन्द्रेण सह वादः
श्रीदेवसूरिर्यदा कर्णावतीं गत्वा वर्षाचतुर्मासीं तस्थौ तदा जयकेशिदेवाख्यस्य कर्णाटनृपतेर्गुरुर्जितानेकस भो मदोद्धुरः कुमुदचन्द्रनामा दिगम्बरवादी अपि तत्र तस्थिवान् । विविधैरुपायैः कुमुदचन्द्रो देवसूरिं वादाय उत्तेजितवान् । शान्ताऽऽत्मापि देवसूरिस्तन्मदविनाशाय श्रीपत्तने गुर्जरराजसभायां वादं विवातुं प्रतिज्ञाय कुमुदचन्द्रं च प्रेर्य शुभे शकुनजाते मुहूर्ते पद्भ्यां प्रयात्य पत्तनमा
नगाम ।
४३. सर्पाणां राज्ञां च शमने समानधर्मत्रं, मुद्राराक्षसे विशाखादत्तेन द्वितीयाई प्रोकं तद् यथा
जाणंति तन्तजुति जहट्टिभं मंडलं अहिलिहन्ति ।
जे मन्तर क्णपरा ते सप्पणराहिवं उबअरन्ति ॥