Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतत्त्वालोके [२०३ तिव्याप्त्यसंभवभेदात् , तत्र लक्ष्यैकदेशावृत्तित्वमव्याप्तिः, यथा-'गोः कपिलत्वं लक्षणम्' इत्युक्ते श्वेतगवादी भवत्यव्याप्तिः, श्वेतगवि कपिलवस्याभावात् । लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वमतिव्याप्तिः, यथा 'शृङ्गित्वं गोर्लक्षणम्' इत्युक्ते महिषादावतिव्याप्तिः, शङ्गित्वरूपधर्मस्य तत्रापि विद्यमानत्वात् । लक्ष्यमात्रावृत्तित्वमसम्भवः, यथा 'एकशफवत्त्वं गोर्लक्षणम्' इत्युक्ते गोमात्रस्यैकशफवत्त्वाभावादसम्भवः। सास्नादिमत्त्वं गोत्वमिति तु दूषणत्रयरहितं लक्षणम् ।
एवमिदमपि प्रमाणलक्षणं दूषणत्रयरहितत्वानिरवद्यम् , तथाहिप्रमाणमात्रे लक्षणस्य सत्त्वान्नाव्याप्तिः, अप्रमाणतो व्यावृत्तत्वान्नातिव्याप्तिः, लक्ष्यमात्रे लक्षणस्य विद्यमानत्वादेव नासम्भवः ।
ज्ञानं प्रमाणमित्युक्ते संशयादावतिव्याप्तिः स्याद् अतः स्वपरव्यवसायीति पदम् , नैयायिकाभिमतस्य जडस्वरूपस्य सन्निकर्षादेः, स्वसमयप्रसिद्धस्य सन्मात्रविषयस्य दर्शनस्य च प्रामाण्यनिराकरणार्थ ज्ञानमिति पदम् , बौद्धैः परिकल्पितस्य निर्विकल्पस्य प्रामाण्यव्यवच्छेदार्थ व्यवसायीति पदम्, ज्ञानाद्वैतवादिनां मतमत्यसितुं परेति, नित्यपरोक्षज्ञानवादिनां मीमांसकानाम्, एकात्मसमवायिज्ञानान्तरप्रत्यक्षवादिनां नैयायिकानाम् , अचेतनज्ञानवादिनां सांख्यानां च मतं निराकर्तुं स्वेति । समग्रलक्षणं तु" अर्थोपलब्धि प्रमाणम्" इत्यादीनां परपरिकल्पितानां लक्षणानां व्यवच्छेदार्थमिति दिक् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि
प्रमाणमतो ज्ञानमेवेदम् ॥३॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177