SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [२०३ तिव्याप्त्यसंभवभेदात् , तत्र लक्ष्यैकदेशावृत्तित्वमव्याप्तिः, यथा-'गोः कपिलत्वं लक्षणम्' इत्युक्ते श्वेतगवादी भवत्यव्याप्तिः, श्वेतगवि कपिलवस्याभावात् । लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वमतिव्याप्तिः, यथा 'शृङ्गित्वं गोर्लक्षणम्' इत्युक्ते महिषादावतिव्याप्तिः, शङ्गित्वरूपधर्मस्य तत्रापि विद्यमानत्वात् । लक्ष्यमात्रावृत्तित्वमसम्भवः, यथा 'एकशफवत्त्वं गोर्लक्षणम्' इत्युक्ते गोमात्रस्यैकशफवत्त्वाभावादसम्भवः। सास्नादिमत्त्वं गोत्वमिति तु दूषणत्रयरहितं लक्षणम् । एवमिदमपि प्रमाणलक्षणं दूषणत्रयरहितत्वानिरवद्यम् , तथाहिप्रमाणमात्रे लक्षणस्य सत्त्वान्नाव्याप्तिः, अप्रमाणतो व्यावृत्तत्वान्नातिव्याप्तिः, लक्ष्यमात्रे लक्षणस्य विद्यमानत्वादेव नासम्भवः । ज्ञानं प्रमाणमित्युक्ते संशयादावतिव्याप्तिः स्याद् अतः स्वपरव्यवसायीति पदम् , नैयायिकाभिमतस्य जडस्वरूपस्य सन्निकर्षादेः, स्वसमयप्रसिद्धस्य सन्मात्रविषयस्य दर्शनस्य च प्रामाण्यनिराकरणार्थ ज्ञानमिति पदम् , बौद्धैः परिकल्पितस्य निर्विकल्पस्य प्रामाण्यव्यवच्छेदार्थ व्यवसायीति पदम्, ज्ञानाद्वैतवादिनां मतमत्यसितुं परेति, नित्यपरोक्षज्ञानवादिनां मीमांसकानाम्, एकात्मसमवायिज्ञानान्तरप्रत्यक्षवादिनां नैयायिकानाम् , अचेतनज्ञानवादिनां सांख्यानां च मतं निराकर्तुं स्वेति । समग्रलक्षणं तु" अर्थोपलब्धि प्रमाणम्" इत्यादीनां परपरिकल्पितानां लक्षणानां व्यवच्छेदार्थमिति दिक् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणमतो ज्ञानमेवेदम् ॥३॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy