________________
स०२]
प्रथमः परिच्छेदा प्रमाणनयतत्त्वव्यवस्थापनम् , तदेव प्रयोजनं यत्र तत् प्रमाणनयतत्त्वव्यवस्थापनार्थम् , क्रियाविशेषणमेतद्, न तु, इदंशब्दनिर्दिष्टस्य शास्त्रस्य, तस्य करणत्वेनैव तत्रोपयोगात् । इदं-बुद्धौ प्रतिभासमानं शास्त्रमुपक्रम्यते-बहिःशब्दरूपतया प्रारभ्यते । “ प्रयोजनमनुदिश्य मन्दोऽपि न प्रवर्तते" इति न्यायेन प्रयोजनमन्तरा प्रेक्षावत्प्रवृत्त्यनुपलम्भादिदमादिवाक्यं प्रयोजनं प्रतिपादयितुं शास्त्रादावुपन्यस्तम् । अत्र बौद्धाः वदन्ति-इदमादिवाक्यं प्रयोजनमभिधातुं नाडलम्, प्रयोजनगोचरसंशयोत्पादकत्वेनैव तस्य चरितार्थत्वादिति। तदसत्, आदिवाक्यं विनैव शास्त्रमात्रावलोकनेनापि इदं शास्त्रं सप्रयोजनमप्रयोजनं वा ? इति प्रयोजनभावाभावपरः संशयः समाविर्भवति, तथा च न तदर्थमादिवाक्यमावश्यकम्, अपि तु प्रयोजनप्रतिपादकत्वेनैव सप्रयोजनमिति मन्तव्यम् ॥ १॥
स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥२॥ स्वम्-ज्ञानस्वरूपम् , परः-ज्ञानाद् भिन्नोऽर्थः, स्वं च परश्चेति स्वपरो, तौ विशेषेणावस्यति-निश्चिनोतीत्येवं शीलं यस्य तत् स्वपरव्यवसायि । ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् , (राद्धान्ते वस्तुनः सामान्यविशेषात्मकत्वाद् यदा ग्राहकं ज्ञानं विशेषांशं गौणीकृत्य सामान्यांशं प्राधान्येन गृह्णाति तदा तद् दर्शनपदेनाभिधीयते, यदा सामान्यांशं गौणीकृत्य विशेषांशं प्रधानरूपतया गृह्णाति तदा तद् ज्ञानशब्देनोच्यते) अत्र प्रमाणं लक्ष्यम् , स्वपरव्यवसायित्वे सति ज्ञानत्वं लक्षणम् , असाधारणधर्मो हि लक्षणम् , असाधारणत्वं च लक्ष्यतावच्छेदकसमनियतत्वम् । लक्षणस्य त्रीणि दूषणानि सन्ति, अव्याप्त्यमयम. अन्याय लक्ष्यने या
लगा/पाया 31/4MAL