________________
प्रमाणनयतत्त्वालोके [सू. १ तथा विश्ववस्तुनः-त्रिभुवनवर्तिसामान्यविशेषात्मकस्य पदार्थजातस्य ज्ञातारं-अवबोद्धारम् , शक्रपूज्यं-शकाणां-इन्द्राणां पूज्यं-पूजनीयम् , गिरामीशं-गिरां-वाणीनामौशं-स्वामिनम्, यथावस्थितवस्तुविषयत्वेनैतासां प्रयोक्तृत्वात् । भनेन विशेषणचतुष्टयेन भगवतश्चत्वारो मूलातिशयाः प्रतिपादिताः। तथाहि-अपायापगमातिशयः, ज्ञानातिशयः, पूजातिशयः, वागतिशयश्चेति ।
ननु निर्विनग्रन्थसमाप्ति प्रति मङ्गलस्य कथं कारणत्वम् ? विनापि मङ्गलं किरणावल्यादौ ग्रन्थपरिसमाप्तिदर्शनाद् व्यतिरेकव्यभिचारस्य, कादम्बर्यादी कृतेऽपि मङ्गले समाप्त्यभावादन्वयव्यभिचारस्य च विद्यमानत्वात् , तस्मादनारम्भगीयं मङ्गलमिति चेत्, न, किरणावल्यादौ ग्रन्थाद् बहिरेव मङ्गलस्य कृतत्वाद् विघ्नात्यन्ताभावाद् वा ग्रन्थसमाप्तिसम्भवात् , कादम्बर्यादौ तु कृतेऽपि मङ्गले विघ्नबाहुल्याद् विघ्नानुरूपस्य मङ्गलस्याभावाद् वा समाप्त्यभावान्नान्वयव्यतिरेकव्यभिचारः, तस्मान्मङ्गलनिर्विघ्नग्रन्थसमाप्त्योः कार्यकारणभावे न काऽपि क्षतिरिति दिक् ।
प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥
प्रकर्षण-संशयादिराहित्येन मीयते-ज्ञायते यत् तत् प्रमाणम्, नीयते-गम्यते श्रुतप्रमाणपरिच्छिन्नैकदेशोऽनेनेति नयः, प्रमाणं च नयश्वेति प्रमाणनयो, प्रमाणपदस्य बह्वचत्वेऽपि अभ्यर्हितत्वात् पूर्वनिपातः, प्रमाणनययोस्तत्त्वं-स्वरूपं प्रमाणनयतत्त्वम्, तस्य व्यवस्थापनं १. अथ प्रमाण क। ये कट
1-44 at:,2131417.414