SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जगत्पूज्यश्रीविजयधर्मसूरिभ्यो नमः । श्रीवादिदेवसूरिविरचितः प्रमाणनयतत्त्वालोकः प्रथमः परिच्छेदः। प्रन्थकारस्य मङ्गलाचरणम् रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः । शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥ टिप्पणीकारस्य मङ्गलाचरणम् --- नत्वा गुरुक्रमाम्भोज स्मृत्वा सर्वेश्वरं विभुम् । टिप्पणी बालबोधाय लिख्यते बालभाषया । अथ तत्रभवन्तः पूज्यपादाः सकलकत्रितार्किकचक्रचक्रवर्तित्वेन विश्रुताः श्रीवादिदेवसूरयः प्रारिप्सितग्रन्थनिर्विघ्नपरिसमाप्तये इष्टदेवतानमस्कारात्मकं कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थादौ निबनन्ति राग-द्वेषेति अहं, तीर्थेशं-तीर्थः-साधु-साध्वी-श्रावक-श्राविका इत्येवंरूपचतुर्विधश्रमणसंघस्तस्येशं-स्वामिनं, स्मृति स्मरणम् , आनये-प्रापयामिस्मरामीत्यर्थः । कीदृशं तीर्थेशम् ? रागद्वेषविजेतारं-रागद्वेषयोर्विशेषेणमपुनर्जेयतारूपेण जेतारं-जयनशीलम् , "तृन्" इत्यनेन ताच्छीलिकस्तुन,
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy