________________
सू०४] प्रथमः परिच्छेदः
अभिमतमुपादेयं, अनभिमतं हेयम् । प्रयोगश्च-प्रमाणं ज्ञानमेव अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमत्वात् , यन ज्ञानं तन्नाभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम, यथा स्तम्भादि, अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं च प्रमाणम् , अतो ज्ञानमेवेदम् ॥ ३ ॥ न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपनं तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः॥४॥
अज्ञानस्य-जडस्वरूपस्य सन्निकर्षादे:-इन्द्रियार्थसम्बन्धादेः प्रामाण्यं नोपपद्यते, तस्य-सनिकर्षादेः, अर्थान्तरस्येव घटादेरिव, स्वार्थव्यवसितौ-स्वार्थनिश्चिती, साधकतमत्वानुपपत्तेः-करणत्वानुपपत्तेः ।
अयमर्थः -यथा घटो जडत्वात् स्वनिश्चये अर्थनिश्चये च साधकतमो न भवति, तथैव इन्द्रियविषयसम्बन्धरूपः सन्निकर्षोऽपि स्वनिश्चये अर्थनिश्चये च करणं न भवितुमर्हति, जडत्वादेव ।
प्रयोगश्व-प्तनिकदिर्न प्रमाणं स्वार्थ यवसितावताधकतमत्वात् , यत् स्वार्थ यवसितावसावकतम तन प्रमाणं, यथा घटः, स्वार्थव्यवसितावसाधकतमश्च सन्निकर्षादिस्तस्मान्न प्रमाणम् ।।
नैयायिकाः प्रत्यक्ष प्रति सन्निकर्षस्य प्रामाण्यमङ्गीकुर्वन्ति, तथाहि-तेषां मते सन्निकर्षः षोढा-संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषगविशेष्यभावश्चेति ।
तत्र चक्षुषा घटग्रहणे संयोगः सन्निकर्षः । घटरूपग्रहणे संयुक्तसमवायः, चक्षुस्संयुक्तो घटः तत्र रूपस्य समवायात् । रूपत्वग्रहणे संयुक्तसमवेतसमवायः, चक्षुस्संयुक्तो घटः तत्र समवेतं रूपं तत्र