________________
प्रमाणनयतत्त्वालोके [सं०५-६ रूपत्वस्य समवायात् । श्रोत्रेन्द्रियेण शब्दग्रहणे समवायस्सन्निकर्षः, श्रोत्रेन्द्रियस्य गगनरूपत्वात् “ कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्" इतिवचनात् , तत्र च शब्दस्य समवायात्। श्रोत्रेन्द्रियेण शब्दत्वग्रहणे समवेतसमवायः सन्निकर्षः, श्रोत्रसमवेतः शब्दः तत्र शब्दत्वस्य समवायात् । घटाभाववद् भूतलमित्यत्र विशेषणविशेष्यभावः सन्निकर्षः, चक्षुसंयुक्तं भूतलं तत्र घटाभावस्य विशेषणत्वात् ।।
किञ्च, आत्मादिचतुष्टयसन्निकर्षेण ज्ञानमुत्पद्यते, आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । सुखादिप्रत्यक्षे तु त्रयाणामेक सन्निकर्षः, आत्मा मनसा युज्यते, मनः संयुक्तसमवायसम्बन्धेन सुखादिना, आत्मप्रत्यक्षे तु योगिनां द्वयोरात्ममनसो रेव संन्निकर्षः, अनुमानादिकं प्रति तु द्वयोरात्मनसोः सन्निकर्ष इति नैयायिकमतम् ॥ ४॥ __ न खल्वस्य स्वनिर्णीतौ कारणत्वं स्तम्भादे
रिवाचेतनत्वात् ॥५॥ नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्य कुम्भादे
रिव तत्राप्यकरिणत्वात् ॥६॥ प्रयोगौ तु सन्निकर्षादिः स्वनिश्चिती करणं न भवति, अचेतनत्वात् । योऽचतेनः स स्वनिर्णीतौ करणं न भवति, यथा स्तम्भः, अचेतनश्च सन्निकर्षादिः, तस्मात् स्वनिश्चिती करणं न भवति ।
तथा सन्निकर्षादिरर्थनिश्चिती करणं न भवति, स्वनिश्चिताक करणत्वात् , य एवं स एवं, यथा स्तम्भादिरिति ॥ ६ ॥
अचेतनश्च सनिरर्थनिश्चिती करण
॥ ६ ॥