________________
सू०७]
प्रथमः परिच्छेदः तद् व्यवसायस्वभावं समारोपपरिपन्थित्वात्
प्रमाणत्वाद् वा ॥७॥ तत् प्रमाणभूतं ज्ञानं व्यवसायस्वभावम्-निश्चयात्मकम्, समारोपपरिपन्थित्वात् संशयादिविरुद्धत्वात् , प्रमाणत्वाद् वा, प्रमाणभूतस्य ज्ञानस्य व्यवसायात्मकत्वसाधने प्रत्येकमेवामू हेतू , तथाहि-प्रमाणभूतं ज्ञानं व्यवसायस्वभावं समारोपपरिपन्थित्वात् , एवं प्रमाणभूतं ज्ञानं व्यवसायस्वभावं प्रमाणत्वात् , यन व्यवसायस्वभावं तन्न समारोपपरिपन्थि, प्रमाणं वा, यथा संशयादिर्घटादिश्च, समारोपपरिपन्थि प्रमाणं चेदं ज्ञानं, तस्माद् व्यवसायस्वभावमिति ।
इदमत्रावधेयं-सुगतमते हि सर्व वस्तुजातं क्षणिकम् , क्षणिकस्य वस्तुनो यत् प्रथमाक्षसन्निपातानन्तरं ज्ञानमुत्पद्यते तनामजात्यादिकल्पनारहितत्वानिर्विकल्पकमुच्यते, तदनन्तरं वासनाबलसमुज्जम्भमाणविकल्पविज्ञानं संकेतकालदृष्टत्वेन वस्तु गृह्णाति, अत एव संकेतकालभाविनं शब्दं च तत्र संघटयति, तथा च तदेव शब्दसंपर्कयोग्य यनिर्विकल्पकपश्चाद्भाविवासनासमुद्भूतं विकल्पविज्ञानं, तद्विषयभूतस्संतानश्च। विकल्पविज्ञानं हि पूर्वदृष्टत्वेनैव सर्वं निश्चिनोति, बालोऽपि यावत्पूर्वदृष्टत्वेन स्तनं नावधारयति, न तावन्मुखमर्पयति स्तने, अत एव सर्वोऽपि लौकिकव्यवहारोऽनेनैव विज्ञानेन प्रचलति । निर्विकल्पं तु न निश्चायकं स्वलक्षणमात्रजन्यत्वात् , तस्य च प्रथमक्षणे एव विनष्टत्वान्न शब्दसम्बन्धयोग्यम् , अत एव न तद् व्यवहारपथमवतरति ।
तदेतन्नावितथम्-निर्विकल्पकं यदि व्यवहारपथं नावतरति