SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सं० ८-११ कथं तर्हि तस्य प्रामाण्यम् ? उत्तरकालभाविनो व्यवहारजननसामर्थ्याद् विकल्पात् तस्य प्रामाण्याभ्युपगमापेक्षया वरं विकल्पस्यैव प्रामाण्याभ्युपगमः। किञ्च, भवन्मते सविकल्पं विज्ञानं स्वयमप्रमाणभूतम् , तथा सति कथं तद् निर्विकल्पकस्य प्रामाण्यव्यवस्थापकं भवेदिति यत् किञ्चिदेतत् । तस्मात् प्रमाणभूतं ज्ञानं व्यवसायस्वभावमेवाभ्युपगन्तव्यं, न निर्विकल्पकमिति भावः ॥ ७ ॥ अतस्मिंस्तदध्यवसायः समारोपः ॥८॥ तदभाववति तत्प्रकारकं ज्ञानं समारोपः, अयथार्थज्ञानमिति यावत् ॥ ८॥ स विपर्यय-संशयानध्यवसायभेदात् त्रेधा ॥९॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥१०॥ येनाकारेण वस्तु स्थितं तद्विपरीतकाकारेण तस्य निश्चयनं विपर्ययः ॥ १० ॥ यथा शुक्तिकायामिदं रजतमिति ॥ ११ ॥ शुक्तिकायामरजताकारायां रजताकारेण यग्ज्ञानं स विपर्ययःविपरीतख्यातिरित्यर्थः । ख्यातयो बहुविधाः, यथा-आत्मख्यातिः, असत्ख्यातिः, अख्यातिः, अनिर्वचनख्यातिः, सख्यातिः, अन्यथाख्यातिश्चेति । तत्र-आत्मख्यातिः-आत्मनः ज्ञानस्यैव ख्यातिः-विषयरूपतया भानम् , अयमर्थः-' शुक्ताविदं रजतम्' इत्यत्र ज्ञानस्यैव रजतरूपतया भानं भवति, न च तत्र कश्चिद् वाह्योऽर्थो विद्यते, 'अयं घटः' इत्यादिषु
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy