________________
सू० ११ ]
प्रथमः परिच्छेदः
,
सर्वत्र ज्ञानस्यैव विषयरूपतया प्रतिभासमानत्वात् इति योगाचारापरपर्यायविज्ञानवादिनो बौद्धाः ।
असत्ख्यातिः - असतो रजतादेः ख्यातिः - प्रतीतिः तथाहि'शुक्ताविदं रजतम्' इतिप्रतिभासमानं वस्तु न ज्ञानरूपं भवितुमर्हति 'अहं रजतम्' इति अन्तर्मु 'वा कारताना वात् नाप्यर्थ रूपम्, रजतसाध्याया अर्थक्रियाया अभावात् तस्मादसदेव रजतं तत्र चकास्तीत्य सत्ख्यातिरिति माध्यमिकापरपर्यायशून्यवादिनो बौद्धाः ।
"
अख्यातिरप्रतीतिः - विवेकाख्यातिरित्यर्थः । शुक्ताविदं रजतमित्यत्र प्रत्यक्षस्मरणरूपं प्रत्ययद्वयमुत्पद्यते, तत्रेदमंशः प्रत्यक्षस्य विषयः, हट्टस्थादिरजतं तु स्मरणस्य विषयः, तयोः - प्रत्यक्षस्मरणयोः शुक्तिरजतयोश्चेन्द्रियदोषवशाद् भेदग्रहणं न भवतीति भेदा (s विवेका) ख्यातिरिति मीमांसकाः ।
अनिर्वचनीय ख्यातिर्नाम सत्त्वेनासत्त्वेन चानिर्वचनीयस्य रजतादेः ख्यातिः - प्रतीतिः । तथाहि - 'शुक्ताविदं रजतम्, इत्यत्र रजतं न सद् ' बाध्यमानत्वात्, सतो न बाध्यमानत्वं यथा सत्यरजतम्, नाप्यसत् प्रतीयमानत्वात् असत् न प्रतीयते वन्ध्यास्तनन्धयवत्, तस्मादत्रानिर्वचनीयर जतोत्पत्तिरङ्गी कर्तव्या इति अद्वैतवेदान्तिनः ।
"
सत्ख्यातिर्नाम सतो - विद्यमानविषयस्य ख्यातिः - प्रतीतिः, तथाहि'शुक्ताविदं रजतम्' इत्यत्र शुक्तौ विद्यमानस्यैव रजतांशस्य प्रतीतिः " तदेव सदृशं तस्य यत् तद् द्रव्यैकदेशभाक् ” इति नियमात् पञ्चीकरणप्रक्रियया च तत्र रजतांशानां विद्यमानत्वात् । व्यदृष्टवशात् तु