________________
प्रमाणनयतत्त्वालोके [सं० १२-१४ भूयसामपि शुक्त्यंशानां न प्रतीतिः, स्वल्पानामपि रजतांशानां प्रतीतिभवति, अतः 'शुक्तौ इदं रजतम्' इति ज्ञानं यथार्थमेव, तत्र ज्ञानविषयस्य विद्यमानत्वात्, विषयव्यवहारबाधात् तु भ्रमत्वेन व्यवहार इति विशिष्टाद्वैतवेदान्तिनः।
अन्यथाख्यातिः-अन्यथा स्थितस्य वस्तुनोऽन्यरूपेण प्रतीतिः, तथाहि-अन्यथा स्थितस्य शुक्त्यादिरूपस्यार्थस्यान्यथा-रजतादिरूपेण प्रतिभासनमन्यथा-(विपरीत- ख्यातिरिति जैनाः नैयायिकाश्च ।
एतासां खण्डनमण्डनप्रकारस्तु जिज्ञासुभिः स्याद्वादरत्नाकरादवसेयः, ग्रन्थविस्तरभिया नात्र प्रपञ्च्यते ॥ ११ ॥
साधकबाधकप्रमाणाभावादनवस्थितानेक
कोटिसंस्पर्शि ज्ञानं संशयः ॥१२॥ साधकप्रमाणाभावात् बाधकप्रमाणाभावाचानिश्चितानेकांशावगाहि ज्ञानं संशय इत्यर्थः ॥ १२॥
यथाऽयं स्थाणुर्वा पुरुषो वा ॥ १३॥ प्रत्यक्षविषये धर्मिणि दूरादूर्ध्वादिसाधारणधर्मदर्शनेन वक्त्रकोटरादिकरचरणादिविशेषधर्मस्मरणे सति एकतरनिश्चायकसाधकबाधकप्रमाणाभावाद् दोलायमानं 'स्थाणुर्वा पुरुषो वा ?' इत्याकारकं यज्ञानं प्रादुर्भवति स संशयः, अयं प्रत्यक्षविषयः । अनुमानविषयस्तु कचिद् वनप्रदेशे शृङ्गमात्रावलोकनेन भवति संशयः, 'अयं गौर्वा स्याद् गवयो वा ?' इति ॥ १३ ॥
किमित्यालोचनमात्रमनध्यवसायः ॥१४॥