________________
९०१५-१६] प्रथमः परिच्छेदः
यत्र विशेषस्य स्पष्टतया भानं न भवति, अपि तु किमित्या-- लोचनात्मकं ज्ञानं भवति सोऽनध्यवसाय इत्युच्यते ॥ १४ ॥
यथा गच्छत्तृणस्पर्शज्ञानम् ॥ १५॥ यथा गच्छतः पुरुषस्यान्यत्राऽऽसक्तचित्तस्य तृणस्पर्शे जाते एवं जातीयकं एवं नामकमित्यादि विशेषरूपेणावधारणं न भवति, अपि तु ' मया किमपि स्पृष्टम्' इत्याकारकमालोचनात्मकं यज्ज्ञानं भवति सोऽनध्यवसाय इत्युच्यते । प्रत्यक्षविषयश्चायमनध्यवसायः । परोक्षविषयस्तु कस्यचिदपरिज्ञातगोजातीयस्य पुंसः क्वचन वननिकुञ्ज सास्नामात्रावलोकनेन पिण्डमात्रमनुमाय 'को नु खल्वत्र प्राणी स्यात् ?' इत्यादि ॥ १५॥
ज्ञानादन्योऽर्थः परः ॥ १६ ॥ ज्ञानाद् भिन्नः पदार्थः परः " स्वपरव्यवसायि ज्ञानं प्रमाणम्" [१-२] इत्यत्र परशब्दवाच्य इत्यर्थः ।
अनेन 'ज्ञानमेव तत्त्वम् ,' ज्ञानातिरिक्तत्वेन प्रतिभासमाना घटपटादयो बाह्यपदार्था ज्ञानस्यैवाकारविशेषा इति वदन्तो योगाचारापरपर्यायज्ञानाद्वैतवादिनो बौद्धा निरस्ताः। तथाहि-यदि बाह्यपदार्थों नाङ्गीक्रियते तर्हि अयं घटः, अयं पटः, इति घटपटाद्याकारविशिष्टं ज्ञानं किं निमित्तमुत्पधेत ? अनादिवासनावैचित्र्यात् तादृशज्ञानमुत्पद्यते इति चेत् , ननु सा वासना ज्ञानादभिन्ना भिन्ना वाऽङ्गीक्रियते, यद्यभिन्ना तर्हि ज्ञानमेव तत्त्वं स्यात्, न तु वासना नाम किश्चित् , तथा च कथं वासनावशाद् ज्ञाने घटाघाकारसिद्धिः? भिन्नत्वे तुज्ञानाद्वैतहानिः स्यात्,