________________
प्रमाणनयतत्त्वालोके [सू०१६ ज्ञानातिरिक्तत्वेन वासनाया अप्यर्थत्वात् , तस्मान्न बाह्यार्थमन्तरा घटाद्याकारविशिष्टं ज्ञानमुपपद्यते इति बाह्यार्थोऽङ्गीकर्तव्य एवेति संक्षेपः। एते च बौद्धा वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिकभेदाच्चतुर्विधाः ।
तत्र वैभाषिको बाह्यं घटपटादि, आन्तरं ज्ञानादि च वस्तुतत्त्वं सत्यत्वेनाङ्गोकरोति । सौत्रान्तिको यद्यपि बाह्यमान्तरं चेति द्विविधमपि तत्त्वं स्वीकरोति, तथापि बाह्यपदार्थानां प्रत्यक्षं नैव मन्यते, घटपटादिनानाकारं ज्ञानं वर्तते, ततोऽनुमीयते बाह्यपदार्थाः सन्तीति अनुमानेन बाह्यपदार्थावगतिं ब्रूते । योगाचारस्तु बाह्यपदार्थानां सर्वथैवाऽपलापं करोति, केवलमान्तरमेव ज्ञानाख्यं तत्त्वं स्वीकरोति, ज्ञानमेव ग्राह्यप्राहकरूपेण प्रतिभासते, न वस्तुतो बाह्यपदार्थाः सन्तीति सिद्धान्तयति । माध्यमिकस्तु सर्वशून्यत्वमेव वदति, तथाहिमानाधोना मेयसिद्धिरिति नियमेन पदार्थानां सिद्धिर्यदि प्रमाणाधीना, तर्हि प्रमाणस्य सिद्धिः केन ? अन्येन प्रमाणेन चेत् , तस्यापि कथम् ! अन्येन चेत्, तर्हि तस्याप्यन्येन, इत्यादिरूपेगानवस्था, यदि तेनैव प्रमाणेन तर्हि आत्माश्रयः, अतः प्रमाणं न सिध्यति, प्रमाणसिद्धयभावात् प्रमेयमपि न सिध्यतीति सिद्धा सर्वशून्यता ।
तथा च संग्रहश्लोकः श्रीहरिभद्रसरीयषट्दर्शनसमुच्चयस्य श्रीगुणरत्नमरिकृतायां टीकायाम्"अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते
प्रत्यक्षो नहिं बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा
मन्यन्ते बत मध्यमाः कृतधियः स्वस्थां परां संविदम् ॥"