________________
सू० १७-१९ ]
प्रथमः परिच्छेदः
एषां खण्डनप्रकारस्तु प्रन्थान्तरादवसेयः ॥ १६॥
स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनं, बाह्यस्येव तदाभिमुख्येन करिकलभकममात्मना जानामि || १७ |
यथा ज्ञानस्य बाह्याभिमुख्येन - विषयानुभवनेन, प्रकाशनं बाह्यव्यवसायः एवं स्वाभिमुख्येन प्रकाशनं - स्वव्यवसाय:, तथाहि - यथा करिकलभकमहमात्मना जानामि' इत्यत्र 'अहम्' इत्यनेन प्रमाता, 'करिकलभकम्' इत्यनेन प्रमेयं, 'जानामि' इत्यनेन प्रमितिः प्रतीयते, तथैव 'आत्मना ' इत्यनेन प्रमाणभूतं ज्ञानमपि प्रतीयत एव ॥ १७ ॥ कः खलु ज्ञानस्याऽऽलम्बनं बाह्यं प्रतिभातमभिमन्यमानः तदपि तत्प्रकारं नाभिमन्येत मिहिराssलोकवत् ? ॥ १८॥ अयमर्थः—यथा भास्करप्रभाभिर्घटपटादिकं वस्तुजातं पश्यन्तो जना भास्करप्रभामपि पश्यन्त्येव, तथैव ज्ञानविषयीभूतानां कुम्भादीनां प्रकाशमभिमन्यमानैर्ज्ञानस्यापि प्रकाशोऽङ्गीकर्त्तव्य एव । एतेन 'ज्ञानमतीन्द्रियं ज्ञानजन्यज्ञातृता प्रत्यक्षा तथा ज्ञानमनुमीयते ' इति वदन्तो मीमांसकैकदेशिनो भाट्टाः 'समुत्पन्नं हि ज्ञानं एकात्मसमवेतानन्तर समय समुत्प दिष्णु मानसप्रत्यक्षेणैव लक्ष्यते, न तु स्वेन' इति जल्पन्तो नैयायिकाच निरस्ता वेदितव्याः ॥ १८ ॥
ज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् ॥ १९॥ ज्ञानस्य यत् प्रमेयाऽव्यभिचारित्वं प्रमेयाऽविनाभावित्वं तदेव तस्य प्रामाण्यम् ।
१. महमिहात्मना क ।
6
१३