SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सं० २०-२१ अयं भावः-यादृशोऽर्थः प्रत्यक्षादिज्ञानेनाऽवगतः तादृश एवं चेत् प्राप्यते तदा तज्ज्ञानं प्रमाणं, यथा सत्यरजतज्ञानम् ॥ १९ ॥ तदितरत् त्वमामाण्यम् ॥२०॥ तस्मात्-प्रमेयाऽऽयभिचारित्वात्, इतरत्-प्रमेयव्यभिचारित्वम् मप्रामाण्यम् । यादृशोऽर्थो ज्ञानविषयतामागतस्तादृश एव चेन्न प्राप्यते तदा तज्ज्ञानमप्रमाणं, यथा-'शुक्तिकायामिदं रजतम्' इति ज्ञानम् ॥२०॥ तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च ॥२१॥ ज्ञानगतप्रामाण्यविषये मिथो विवदन्ते दर्शनकाराः, तथाहिउत्पत्तौ ज्ञप्तौ च ज्ञानानां प्रामाण्यं स्वतः, अप्रामाण्यं परत इति मीमांसका वेदान्तिनश्च । उभयत्रापि प्रामाण्याप्रामाण्यं परत इति नैयायिकाः। मप्रमाण्यं स्वतः प्रामाण्यं परत इति सौगताः। तत्त्वविदस्तु 'तदुभयमुत्पत्तो परत एव ज्ञप्तौ तु स्वतः परतश्च' इति वदन्ति । तदुभयम्-प्रामाण्यमप्रामाण्यं च उत्पत्तौ स्वोत्पत्तौ परत एवज्ञानकारणगतगुणदोषाभ्यामेव उत्पद्यते इति शेषः, ज्ञतो तु निश्चये तु स्वतः परतश्च, अभ्यासदशाऽऽपन्ने करतलादिज्ञाने स्वतः, अनभ्यासदशाऽऽपन्ने सर्पादिज्ञाने परतः, संवाद-बाघकाभ्यां निश्चीयते । अयं भावः-ज्ञानसाधनम्-इन्द्रियादि यदि नैर्मल्यादिगुणविशिष्टं तर्हि तत् प्रमाणभूतं ज्ञानं जनयति, यदि तदेव काचकामलादिदोषविशिष्टं तर्हि अप्रमाणभूतं ज्ञानमुत्पादयति, तत्र ज्ञानोत्पत्तिं प्रतीन्द्रियाणां कारणत्वं, ज्ञानगतप्रामाण्याप्रामाण्योत्पादकत्वे तु गुणदोषयोः कारणत्वमिति विवेकः, ज्ञानगतप्रामाण्यस्य निश्चयस्तु अभ्यासदशाऽऽपने
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy