________________
स्० २१] प्रथमः परिच्छेदः करतलादिज्ञाने स्वत एव भवति, अनभ्यासदशाऽऽपन्ने-सत्यसादिज्ञाने संवादकज्ञानाद् भवति ।
अप्रामाण्यस्य निश्चयस्तु अभ्यासदशाऽऽपन्ने मृगतृष्णिकादौ स्वत एव भवति, अनभ्यासदशापन्ने 'शुकाविदं रजतम्' इति ज्ञाने तु बाधकज्ञानाद् भवतीति ।
यादृशोऽर्थः पूर्वज्ञाने प्रथापथमवतीर्णः तादृश एव येन ज्ञानेन व्यवस्थाप्यते, तत् संवादकमित्युच्यते । मन्दसामग्रीजन्यं संवाद्य, उदग्रसामग्रीसमुत्पाचं संवादकमिति ॥ २१॥
इति बालबोधिन्याख्यया टिप्पण्या विभूषिते श्रीवादिदेवसूरिसंहन्धे प्रमाणनयतत्त्वालोके प्रमाणस्वरूपनिर्णायक
प्रथमः परिच्छेदः।