SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । तद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥ तत् - प्रमाणं प्रत्यक्ष-परोक्षभेदेन द्विप्रकारमित्यर्थः ॥ १ ॥ स्पष्टं प्रत्यक्षम् ||२|| स्पष्टत्वं प्रत्यक्षस्य लक्षणमित्यर्थः । प्रबलतरज्ञानाssवरणीयवीर्यान्तराययोः कर्मणोः क्षयोपशमात् क्षयाद् वा स्पष्टताविशिष्टं यज्ज्ञानं तत् प्रत्यक्षं ज्ञातव्यम् ॥ २ ॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ||३|| अनुमानादिप्रमाणैर्येषां नियतवर्णसंस्थानाद्याकाराणां प्रतिभासनं न भवति तेषामपि प्रतिभासनं प्रत्यक्षस्य स्पष्टत्वमिति ॥ ३ ॥ तद् द्विप्रकारम् - सांव्यवहारिकं पारमार्थिकं च ॥ ४ ॥ संव्यवहारः - बाधारहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिक, परमार्थे भवं पारमार्थिकम् । अयं भावः – बाह्येन्द्रियादिसाधनेभ्यो यज्ज्ञानमुत्पद्यते तत्सां - व्यवहारिक प्रत्यक्षमुच्यते, इदम् अपारमार्थिकं, बाह्येन्द्रियादिसामग्रीसापेक्षत्वात् । अवधि-मनः पर्याय- केवलज्ञानरूपं तु पारमार्थिकं प्रत्यक्षम्, बाह्येन्द्रियादिसामग्री निरपेक्षत्वात् तद्धि आत्मसन्निधिमात्रेणोत्पद्यते ॥ ४॥ , तत्राऽऽद्यं द्विविधम्-इन्द्रियनिबन्धनमनिन्द्रियमनिबन्धनं च ॥५॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy