________________
सू०६] द्वितीयः परिच्छेदः
तत्र-उभयोर्मध्ये, आद्य-सांव्यवहारिकं प्रत्यक्षं, द्विविधं-द्विप्रकार, इन्द्रियनिबन्धनं-चक्षुरादीन्द्रियहेतुकम् , अनिन्द्रियनिबन्धनं च मनोहेतुकं चेत्यर्थः । चक्षुरादीन्द्रियजन्यं मनोजन्यं च यज्ज्ञानं तत् सांव्यवहारिकप्रत्यक्षमुच्यते इति समुदायार्थः ।
इन्द्रियं द्विविध, द्रव्येन्द्रिय-भावेन्द्रियभेदात् , द्रव्येन्द्रियं द्विविधं, निर्वृत्तीन्द्रियोपकरणेन्द्रियभेदात् , निवृत्तीन्द्रियं द्विविधं, बाह्याभ्यन्तरभेदात् , तत्र बाह्य-प्रत्यक्षेण परिदृश्यमानं कर्णशष्कुल्याद्यनेकप्रकारम् , आन्तरं-कदम्बपुष्पाद्याकारम् । उपकरणेन्द्रियं-आभ्यन्तरनिवृत्तीन्द्रियस्थितं स्वस्वविषयग्रहणशक्तिरूपं, यस्मिन् उपहते निवृत्तन्द्रियसत्त्वेऽपि विषयग्रहणं न भवति तत् । ____ भावेन्द्रियमपि द्विविधम् , लब्ध्युपयोगभेदात् , तत्र लब्धीन्द्रियंइन्द्रियावरणक्षयोपशमापरपर्यायार्थग्रहणशक्तिरूपम् । अर्थग्रहणव्यापाररूपमुपयोगेन्द्रियम् । चक्षुषोऽप्राप्यप्रकाशकारित्वम् , अन्येषामिन्द्रियाणां तु प्राप्यप्रकाशकारित्वमिति ।
नैयायिकादयस्तु सर्वेषामिन्द्रियाणां प्राप्यप्रकाशकारित्वमेव वदन्ति । बौद्धास्तु चक्षुःश्रोत्रेन्द्रियवानीन्द्रियाणि प्राप्यप्रकाशकारिणीति मन्यन्ते ।
मनोऽपि द्रव्य-भावभेदाद् द्विविधं प्राप्यप्रकाशकारि चास्तीति॥५॥
एतद् द्वितयमवग्रहेहावाय-धारणाभेदादेक
शश्चतुर्विकल्पकम् ॥ ६॥