SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू०७-१० ____एतद् द्वितयम्-इन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च, एकश:प्रत्येकम् अवग्रह-ईहा-अवाय-धारणाभेदात् चतुर्विकल्पकम्-चतुमेंदम् ॥ ६ ॥ विषयविपयिसनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदशेनाजातमाद्यमवान्तरसामान्याकारविशिष्ट वस्तुग्रहणमवग्रहः ॥७॥ विषय :- सामान्यविशेषात्मकोऽर्थः, विषयी-चक्षुरादीन्द्रियानिन्द्रियसमुदायः, तयोः सनिपातः-योग्य देशावस्थानम् , तदनन्तरमुत्पन्नं यत्सत्तामात्रविषयकं दर्शनम्-निराकारं ज्ञानम् , तस्मादनन्तरमुत्पन्नं यत् सत्त्वसामान्यादवान्तरमनुष्यत्वादिसामान्याऽऽकारविशिष्टवस्तुग्रहणम् अवग्रहः-अवग्रहशब्दवाच्य इत्यर्थः ॥ ७॥ ___ अवगृहीतार्थविशेषाकाङ्क्षीणमीहा ॥८॥ अवगृहीतार्थस्य-मनुष्यत्वादिसामान्यरूपेण गृहीतस्यार्थस्य विशेषाकाङ्क्षणम्-'अनेन कान्यकुब्जेन भवितव्यम्' इत्येवं-रूपमीहापदवाच्यम् ॥ ८ ॥ ईहितविशेषनिर्णयोऽवायः ॥९॥ ईहितविशेषस्य-ईहाविषयीकृतस्य वस्तुनो निर्णयः 'अयं कान्यकुम्ज एवं' इत्याकारको निश्चयः-अवायः ॥ ९ ॥ स एव दृढतमावस्थापनो धारणा ॥ १० ॥ स एव-अवाय एव, दृढतमावस्थापनः-सादरस्य प्रमातुः किश्चित् कालं तिष्ठन् धारणेत्यभिधीयते ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy