________________
सू० ११-१२] द्वितीयः परिच्छेदः ___ इदमत्र सूत्रचतुष्टस्य तात्पर्यम्-इन्द्रियविषयसन्निपातानन्तरं प्रथमम् 'अस्ति किञ्चिद्' इत्याकारं निराकारं ज्ञानमुत्पद्यते, तद् दर्शनमित्यभिधीयते, तादृशदर्शनानन्तरं मनुष्यत्वाद्यवान्तरसामान्याकारविशिष्टम्'अयं मनुष्यः' इत्याकारकं यज्ज्ञानमुत्पद्यते सोऽवग्रह इत्युच्यते, तदनन्तरम् ' अनेन कान्यकुब्जेन भवितव्यम्' इत्याद्याकारं विशेषाऽऽकाङ्क्षगमीहाज्ञानं भवति, ततः 'अयं कान्यकुब्ज एव' इत्याकारक निश्चयात्मकं ज्ञानमुन्मजति सोऽवायः, स एवावायः सादरस्य प्रमातुः किञ्चित् कालं तिष्ठन् धारणेत्यभिधीयते ॥१०॥
संशयपूर्वकत्वादीहायाः संशयाद् भेदः ॥११॥
ईहायाः-'अनेन कान्यकुब्जेन भवितव्यम्' इत्याकारकस्य ज्ञानस्य, संशयपूर्वकत्वात्-'किमयं कान्यकुब्जः, उत पाञ्चाल: ?' इत्यकारकसंशयपूर्वकत्वात् , संशयाद् भेदः-ईहा संशयाद् भिन्नत्यर्थः। संशयस्याप्रमाणत्वादवग्रहादिषु पाठो न कृतः ॥ ११ ॥ कथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यप
देशभेदः ॥१२॥ एषां दर्शनावग्रहादीनां, कथञ्चिद्-द्रव्यनयापेक्षया, अभेदेऽपिएकत्वेऽपि, परिणामविशेषात्-पर्यायनयापेक्षया, व्यपदेशमेदः-भिन्नत्वेन प्रतिपादनमित्यर्थः ।
एकजीवद्रव्ये दर्शनादीनां कथञ्चिदविश्वग्भावेन विद्यमान- ब्व त्वादेकत्वेपि परिणापापेक्षया कथञ्चित्पृथक्त्वेन प्रतिपादनमिति भावः ॥१२॥