SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोके [ सू० १३-१४ असामस्त्येनाप्युत्पद्यमानत्वेन, असंकीर्णस्वभावतयाऽनुभूयमानत्वाद्, अपूर्वापूर्वदस्तुपर्यायप्रकाशकत्वात्, क्रमभावित्वात् चैते व्यतिरिच्यन्ते || १३ || एते - दर्शनावग्रहादयो व्यतिरिच्यन्ते - परस्परं पृथक्त्वेन वर्त्तन्ते । कस्माद् ? असंकीर्णस्वभावतयाऽनुभूयमानत्वात् - भिन्नभिन्नस्वरूपेण ज्ञायमानत्वात् । सामस्त्येनोत्पत्तिस्थले नैषामसंकीर्णस्वभावतयाऽनुभूयमानतास्ति, अत उक्तम्- 'असामस्त्येनाप्युत्पद्यमानत्वात्' इति कदाचिद् दर्शनमेव, कदाचिद् दर्शनावग्रहौ, कदाचिद् दर्शनावग्रहसंशयेहा इत्यादिरूपेणा संपूर्णतयाऽप्युत्पद्यमानत्वात् । असामस्त्येनाप्युत्पद्यमानत्वम संकीर्णरवभावतयानुभूयमानत्वे हेतु:, असंकीर्णस्वभावतयाऽनुभूयमानत्वं च दर्शनावग्रहादीनां परस्परभिन्नत्वे हेतु:, अयमेको हेतुः, अपूर्वापूर्ववस्तुप्रकाशकत्वात् वस्तुनो भिन्नभिन्नधर्मस्य प्रकाशकत्वात्, अयं द्वितीयो हेतुः । क्रमभावित्वाच्च - क्रमेणोत्पद्यमानत्वाच्च, अयं तृतीयो हेतुः । तथा च येऽसंकीर्णस्वभावतयाऽनुभूयन्ते, अपूर्वा पूर्ववस्तुपर्यायप्रकाशकाः, क्रमभाविनो वा ते परस्परं व्यतिरिक्ताः यथा स्तम्भादयः, अनुमानादयः, अङ्करकन्दलकाण्डादयो वा तथा चैते दर्शनावग्रहादयः, तस्मात् परस्परं भिन्ना इति ॥ १३ ॥ २० क्रमोऽप्यमीषामयमेव तथैव संवेदनाद्, एवं क्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥ १४ ॥ · " अमीषां - दर्शनावग्रहादीनां क्रमोऽप्ययमेव-आदौ दर्शनं, तदनन्तरमवग्रहः, ततः संशयः, पश्चादीहा, ततोsवायः, ततो धारणा,
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy