________________
सू०१५-१८] द्वितीयः परिच्छेदः इत्याकारक एव, तथैव संवेदनान्-अनुभूयमानत्वात् , एवंक्रमेणाविभूतो यो निजकर्मगो दर्शन-ज्ञानाऽऽवरणस्वरूपस्य क्षयोपशमः, तत्कार्यत्वाच्चायमेव क्रमः, येन क्रमेग दर्शनाद्यावरणकर्मणः क्षयोपशमो भवति तेनैव क्रमेण दर्शनादय उत्पद्यन्ते इति भावः ॥ १४ ॥
अन्यथा प्रमेयानवगतिप्रसङ्गः ॥१५॥ अन्यथा-यथोक्तकमानङ्गीकारे, प्रमेयानवगतिप्रसङ्गः-वस्तुनोऽनवभासप्रसङ्गः स्यात् ॥ १५ ॥ न खल्वदृष्टमवगृह्यते, न चानवगृहीतं संदिह्यते, न चासंदिग्धमीयते, न चानीहितमवेयते,
नाप्यनवेतं धार्यते ॥१६॥ अदृष्टे वस्तुनि अवग्रहो न भवति, अवगृहीते संदेहो न भवति, असन्दिग्धे ईहा न भवति, अनीहिते अवायो न भवति, अवायाsविषयीकृते वस्तुनि धारणा न भवति ॥ १६ ॥ कचित् क्रमस्यानुपलक्षणमेषाम् आशूत्पादाद् उत्पल
पत्रशतव्यतिभेदक्रमवत् ॥ १७॥ अयमर्थः-यथा सूच्यादिना क्रियमाणस्योत्पलशतपत्रस्य भेदक्रमः शीघ्रोत्पन्नत्वान्न ज्ञायते, तथा क्वचित् करतलादी दर्शनादीनामपि क्रमो नानुभूयते ॥ १७॥
पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥१८॥
१. तथाहि-न खल्व क, ख ।