________________
प्रमाणनयतत्त्वालोके
[सू० १९-२१
आत्ममात्रापेक्षम्-जीवद्रव्यमेवापेक्षते । अयं भावः-सांव्यवहारिकप्रत्यक्षमिन्द्रियादिसापेक्षमात्मद्रव्यमलम्ब्योत्पद्यते, पारमार्थिकं तु प्रत्यक्षमिन्द्रियादिनिरपेक्षमात्मद्रव्यमवलग्थ्योत्परते, इति ॥ १८॥
तद् विकलं सकलं च ॥१९॥ तत्-पारमाथिकं तु प्रत्यक्षम् , विकलम्-असमग्रविषयकम् , सफलम्-समग्रविषयकमिति विभेदमित्यर्थः ॥ १९ ॥
तत्र विकलमधि-मनःपर्यायज्ञानरूपतया द्वेधा ॥२०॥
तत्र- विकल-सकलयोर्मध्ये, विकलं-विकलाख्यं प्रत्यक्षम् , अवधिमनःपर्यायभेदेन द्विविधमित्यर्थः ॥ २० ॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं
रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २१॥ अवधिज्ञानस्य यदावरणं तस्य विलयविशेषात्-क्षयोपशमनामकाद् विनाशाद् , उत्पन्नं भवगुणप्रत्ययं-भवः-सुर-नारकजन्मलक्षणः, गुणःक्षयोपशमसम्यग्दर्शनादिः, तो प्रत्ययो कारणे यस्य तद् भवगुणप्रत्ययंभवकारणकं, गुणकारणकं चेति। तत्र सुर-नारकाणामवधिज्ञानं सुरनारकजन्मग्रहणमात्रेणैवोत्पद्यत इति भवप्रत्ययमित्युच्यते; नर-तिरश्चां तु सम्यग्दर्शनादिगुणैस्तत्प्रादुर्भवतीति गुणप्रत्ययमित्यभिधीयते, रूपिद्रव्यगोचरम्-पृथिव्यप्-तेजो-वाय्बन्धकार-च्छायाप्रभृतीनि रूपिद्रव्याणि, तद्विषयकम् ॥२१॥ संयमविशुद्धिनिबन्धनाद् विशिष्टाऽऽवरणविच्छेदाज्जातं
मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥२२॥