SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ स० २३-२५] द्वितीयः परिच्छेदः संयमस्य-चारित्रस्य, विशुद्धिः-निर्मलता, निबन्धनं-कारण यस्य स संयमविशुद्धिनिबन्धनो यो विशिष्टावरणविच्छेदः-मनःपर्यायज्ञानावरणक्षयोपशम इति यावत् । तस्माजातं-उत्पन्नं, मनोद्रव्यपर्यायालम्बनम्मनोद्रव्यपर्यायविषयकं मनःपर्यायज्ञानम् । चारित्रविशुद्धया मनःपर्यायज्ञानाऽऽवरणस्य क्षयोपशमो भवति, तेन च मनोद्रव्यपर्यायविषयकं ज्ञानमुत्पद्यते, तन्मनःपर्यायज्ञानमुच्यते ॥ २२॥ सकलं तु सामग्री विशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥ २३॥ सकलं तु-सकलाख्यं पारमार्थिकं प्रत्यक्षं पुनः, सामग्रीविशेषसमुद्भूतसमस्तावरणक्षयापेक्षम्-सामग्री द्विविधा, बहिरङ्गा अन्तरङ्गा च, तत्रान्तरङ्गा सामग्री प्रकर्षप्राप्तक्षपकश्रेणिसम्यग्दर्शनादिस्वरूपा, बहिरङ्गा पुनर्जिनकालिकमनुष्यभवादिरूपा, तेन सामग्रीविशेषेण समुद्भूतः-समुत्पन्नो यः समस्ताऽऽवरणक्षयः तदपेक्षं-तत्कारणकं निखिलद्रव्यपर्यायाणां यः साक्षात्कारस्तत्स्वरूपं केवलज्ञानं ज्ञातव्यम् ॥ २३ ॥ तद्वान् अर्हन् निर्दोषत्वात् ।। २४॥ तद्वान् केवलज्ञानवान् । तथा च प्रयोगः-अर्हन् सर्वज्ञः, निर्दोषत्वात्, यो न सर्वज्ञः स न निर्दोषः, यथा रथ्यापुरुषः, निर्दोषवाहन, तस्मात् सर्वज्ञः ॥ २४ ॥ निदोषोऽसौ प्रमाणाविरोधिवाक्त्वात् ॥ २५॥ ननु अर्हतो निर्दोषत्वमेवासिद्धम्, तत् कथमनेन सर्वज्ञसिद्धिः ! इत्याशङ्कायां तत्साधकमनुमानान्तरमाहुः-निर्दोषोऽसौ इति-असौ
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy