________________
२४
प्रमाणनयतत्वालोके
[ स्० २६-२७
अर्हन् निर्दोषः, प्रमाणविरोधिवाक्त्वात्, यो न निर्दोषः, स न प्रमाणाऽविरोधिवाक, प्रमाणाऽविरोधिवाक् चार्छन्, तस्मान्निर्दोष इति ||२५|| तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाचस्तेनाविरोधसिद्धिः || २६ ॥
अर्हतः प्रमाणाविरोधिव। क्त्व साधकानुमानान्तरमाहुः तदिष्टस्येति-अर्हन् प्रमाणाविरोधिवाक्, तदिष्टस्य- अनेकान्ततत्त्वस्य प्रमाणेनाऽबाध्यमानत्वाद् भिषग्वत् । अनेन सूत्रचतुष्टयेन सर्वज्ञाऽलापको मीमांसकः प्रतिक्षिप्तो वेदितव्यः ॥ २६ ॥
न च कालाहारवत्वेन तस्यासर्वज्ञत्वम्, कवलाssहारसर्वज्ञत्वयोरविरोधात् ॥ २७ ॥
दिगम्बरा: "केवली कवलाऽऽहारवान् न भवति, छमस्येभ्यो विजातीयत्वात्" इत्यनुमानेन कवलाऽऽहार सर्वज्ञत्वयोर्विरोधमुद्भावयन्ति, तान् निराकर्तुमाहु:-नचेति तस्य - अर्हतः कवलाऽऽहारवरवेनाऽसर्वज्ञत्वं न भवति, कवलाहार सर्वज्ञत्वये विरोधाभावात् । अयं भावः - यदि कवलाहारस्य केवलज्ञानेन सह विरोधो भवेत् तर्ह्यस्मदीयज्ञानेनापि तस्य विरोधोऽपरिहरणीयः स्याद् ज्ञानत्वाविशेषात्, न हि भास्करप्रभाभिर्निरस्यमानमन्धकारनिकुरम्बं दीपप्रभाभिर्न निरस्यते, तथा च नाऽस्माकमप्याहारापेक्षा भवेत् न चैवम् तस्मान्न सर्वज्ञव-कवला - हारयोर्विरोध इति दिक् ॥ २७ ॥
"
इति बालबोधिन्याख्यया टिप्पण्या विभूषिते श्रीवादिदेवसूरिसंहन्धे प्रमाणनयतत्वा
लोके प्रत्यक्षस्वरूपनिर्णायको द्वितीयः परिच्छेदः ।
-