________________
तृतीयः परिच्छेदः ।
अस्पष्टं परोक्षम् ॥ १ ॥
वैशद्याभावविशिष्टं यत् प्रमाणं तत् परोक्षप्रमाणमित्यर्थः ॥ १ ॥
स्मरण- प्रत्यभिज्ञान- तर्कानुमानागमभेदतस्तत् पञ्चमकारम् || २ |
तत्-परोक्षप्रमाणम्, अन्यत् स्पष्टम् ॥ २ ॥
तत्र संस्कारपत्रोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥ ३ ॥
"
अनुभवजन्यो यः संस्कारः - आत्मशक्तिविशेषस्तस्य प्रबोधात् सम्भूतम् - उत्पन्नम् इति कारणनिरूपणम्, प्रत्यक्षादिप्रमाणैरनुभूतोSर्थः - विषयो यस्य तदनुभूतार्थविषयम् इति विषय प्रदर्शनम्, तदिस्याकारं - तच्छदेनोल्लेखनीयम् इति स्वरूपप्रतिपादनम्, वेदनं ज्ञानं
"
स्मरणमित्युच्यते ।
ܕ
स्मरणं प्रत्युद्बुद्धसंस्कारः कारणम् । अनुभूतार्थस्तस्य विषयः । तच्छदेनोल्ले स्वस्तस्य स्वरूपमिति ॥ ३ ॥
तत् तीर्थकर विम्बमिति यथा ॥ ४ ॥
तदित्यनेन यत् प्राक् प्रत्यक्षीकृतं स्मृतं प्रत्यभिज्ञातं वितर्कितमनुमितं श्रुतं वा भगवतस्तीर्थ करस्य बिम्बं - प्रतिकृतिः तस्य परामर्शः ॥ ४ ॥