________________
प्रमाणनयतरवालो [सू० ५-६ अनुभवस्मृतिहेतुकं तिर्यगूलतासामान्यादिगोचरं
संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥५॥ अनुभवस्मृतिहेतुकं-प्रत्यक्षादिप्रमाणजन्यं ज्ञानमनुभवः, स्मृतिश्वानन्तरोक्ता, ते हेतुर्यस्य तद् इति कारणनिरूपणम्, गवादिषु सदृशपरिणामस्वरूपं गोवादिकं तिर्यक्सामान्यमित्युच्यते । कटककुण्डलादिपर्यायेषु यदन्वयिद्रव्यं सुवर्णादि तदूर्वतासामान्यमित्युच्यते । एतदुभयमादिर्यस्य विसदृशपरिणामादेः, तिर्यगूर्खतासामान्यादिर्गोचरो-विषयो यस्य तत् तिर्यगूर्खतासामान्यादिगोचरम् , इति विषयनिरूपणम् , संकलनात्मकं-पदार्थस्य विवक्षितधर्मयुक्तत्वेन प्रत्यवमर्शनमात्मा स्वभावो यस्य तद् इति स्वरूपकथनम् , एतादृशं यज्ञानं तत् प्रत्यभिज्ञानमुच्यते ।
प्रत्यभिज्ञानं प्रति अनुभवः स्मृतिश्च कारणम् । वस्तुनो विवक्षितधर्मयुक्तत्वेन प्रत्यवमर्शनं तस्य स्वरूपमिति भावः ॥ ५ ॥ यथा तज्जातीय एवायं गोपिण्डः, गोसदृशो गवयः,
स एवायं जिनदत्त इत्यादि ॥ ६ ॥ 'तजातीय एवायं गोपिण्डः' इति तिर्यक्सामान्योदाहरणं, ‘गोसदृशो गवयः' इति पुनरपि तिर्यक्-सामान्यस्योदाहरणप्रदर्शन नैयायिकाद्यभिमतस्य पमानप्रमाणस्य निरासार्थ, सिद्धान्ते उपमानप्रमाणस्य प्रत्यभिज्ञानेऽन्तर्भावात् । तथाहि-कश्चित् पुमान् वनेचरसकाशाद् यदा ‘गोसदृशो गवयः' इति वाक्यं शुश्राव, तदैव तस्य मनसि सामान्यरूपेण प्रतिभासमाने गवयपिण्डे गवयशब्दस्य सम्बन्धज्ञान