SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 0 स्०७] तृतीयः परिच्छेदः मभूत् , पश्चाद् वनं गतस्यास्य गवयदर्शने जाते प्राक्तनसामान्याकारसम्बन्धस्मरणे च ‘स एष गवयपदवाच्यः' इति संकलनाज्ञानरूपं प्रत्यभिज्ञानं प्रादुर्भवति, एवं ' गोसदृशो महिषः' इत्याद्यपि तथारूपत्वात् प्रत्यभिज्ञानमेव । ‘स एवायं जिनदत्तः' इन्यूर्वतासामान्यास्योदाहरणम् , आदिशब्दात् ‘स एव वह्निरनुमीयते मया' स एवार्थोऽनेनाप्युच्यते' इत्यादिस्मरणसहितानुमानादिजन्यं ज्ञानं प्रत्यभिज्ञानं ज्ञातव्यम् ॥ ६ ॥ उपलम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधन सम्बन्धाद्यालम्बनम् 'इदमस्मिन् सत्येव भवति' इत्याद्याकारं संवेदनम्, ऊहाऽ परनामा तर्कः ॥७॥ प्रमाणमात्रेण ग्रहणमुपलम्भः, प्रमाणमात्रेणाग्रहणमनुपलम्भः, ताभ्याम्-उपलम्भानुपलम्भाभ्यां, सम्भवः-उत्पत्तिर्यस्य तत् तथा, इति कारणकीर्तनम् । त्रिकालवर्तिसाध्य-साधनयोः सम्बन्धः-व्यातिः, स आदिर्यस्य निःशेषदेशकालवर्त्तिवाच्य-वाचकभावसम्बन्धस्य,स आलम्बनंविषयो यस्य तत् तथा, इति विषयनिरूपणम् । ‘इदमस्मिन् सत्येव भवति इदमस्मिन्नसति न भवत्येव' इत्याकारं संवेदनं तर्कः, तस्यैव अहेति नामान्तरम् । अयं भावः- वह्नौ सत्येव धूमो भवति वह्नयभावे न भवति' इत्याकारकं ज्ञानं तर्क इत्युच्यते, 'वह्निसत्त्वे धूमोपलम्भो वह्नयभावे धुमस्यानुपलम्भः' इति उपलम्भानुपलम्भाभ्यामयं तर्क उत्पद्यते । अस्य तर्कस्य वह्नि-धूमयोरविनाभावो विषयः ॥ ७॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy